पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२१२ आनन्दगिरिकृतटीकासंवलित शांकरभाष्यसमेता--[ ४ चतुर्थाध्याये: एवं पृष्टा जवाला सा हैन पुत्रमुवाच-नाहमेतत्तव गोत्रं वेद हे तात यद्गोत्रस्त्वमसि । कस्मान्न वेत्सीत्युक्ताऽऽह-बहु भर्तगृहे परिचर्याजातमतिथ्यभ्या. गलादि चरन्त्यहं परिचारिणी परिचरन्तीति परिचरणशीलवाहं परिचरणचित्त. तया गोत्रादिस्मरणे मम मनो नाभूत् । यौवने च तत्काले त्वामलभे लब्धव. त्यस्मि । तदैव ते पितोपरतः । अतोऽनाथाऽहं साऽहमेतन्न वेद यद्गोत्रस्त्वमार्स। जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि स त्वं सत्यकाम एवाहं जाबालोऽस्मीत्याचार्याय ब्रुवीथाः । यद्याचार्येण पृष्ट इत्यभिप्रायः॥ २॥ अतिथ्यभ्यामताद्यधिकृत्य परिचर्याजातं बहु चरन्ती भर्तृगृहे यतोऽहं स्थिता तेन परिचरन्ती सती परिचरणचित्ततया गोत्रादीन्नापृच्छम् । तथा च तत्स्मरणे मनो मम नाऽऽसीदिति । गोत्रादिप्रश्नाभावे हेत्वन्तरमाह-यौवन इति । यद्यपि तस्यामवस्थाया लज्जया गोत्रादि नाप्राक्षास्तथाऽपि कालान्तरे किमिति पितरं न पृष्टवतीत्याशङ्कयाऽऽहतदैवेति । तथाऽपि किमित्यन्यमभिज्ञ नाप्राक्षीरित्याशङ्कयाऽऽह-अत इति । प्रथम लज्जया पितरं प्रति न प्रश्नः पुनश्च तस्योपरतत्वात्पश्चान्न दुःखबाहुल्यादन्यं प्रति प्रश्न इति स्थिते प्रश्नाभावफलमाह-साऽहमिति । किं तर्हि तब ज्ञानमस्ति तदाह-जबाला त्विति । एवं स्थिते किमाचार्य प्रति मया वक्तव्यमित्याशङ्कयाऽऽह--स त्वमिति । नावृष्टः कस्यचिद्व्यादिति न्यायं सूचयति-यदीति ॥ २॥ स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति वत्स्याम्बुपेयां भगवन्तमिति ॥ ३॥ त होवाच किंगोत्रो न सोम्यासीति स होवाच नाहमेतद्वेद भो यद्गोंत्रोऽहमस्म्यपृच्छं मातर५ सा मा प्रत्यब्रवीद्वह्वहं चरन्ती परिचारिणी यौवने, त्वामलो साऽहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽह५ सत्यकामो जाबालोऽस्मि भो. इति ॥ ४ ॥ १ ङ. नगेहे । २ घ. ठ. 'न्ती प० । ड. ढ. 'न्ती परिचरणाचे । ३ ग, ट. ति परिचरणचि । ४ ग. च. ठ. वाहमतस्तञ्चित्त । ५ रु. म. छ. अ. द. . तुंगेहे । ६ ख. अ. नु सौम्या । ७ ज, मा।