पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२१३ चतुर्थः खण्डः ४] छान्दोग्योपनिषत् । स ह सत्यकामो हारिद्रुमतं हरिद्रुमतोऽपत्यं हारिद्रुमतं गौतम गोत्रत एत्य गत्वोवाच ब्रह्मचर्य भगवति पूजावति त्वयि वत्स्याम्यत उपेयामुपगच्छेयं शिष्यतया भगवन्तमित्युक्तवन्तं तं होवाच गौतमः । किंगोत्रो न सोम्यासीति विज्ञातकुलगोत्रः शिष्य उपनेतव्यं इति पृष्टः प्रत्याह सत्यकामः । स होवाच नाहमेतद्वेद भो यगोत्रोऽहमस्मि । किं त्वपृच्छं पृष्टवानस्मि मातरम् । सा मया पृष्टा मां प्रत्यब्रवीन्माता । बह्वहं चरन्तीत्यादि पूर्ववत् । तस्या अहं वचः स्मरामि सोऽहं सत्यकामो जाबालोऽस्मि भो इति ।। ३ ॥ ४ ॥ मातृवचनश्रवणानन्तरं ।कं कृतवानित्यपेक्षायामाह-स हेति ।आचार्यसमीपे ब्रह्मचर्यवासः शिष्यभावाइते न सि यतीत्यभिमन्वानायोक्तम्-अत इति । किमनया काकदन्तपरीक्षया भवता त्वमुपनेतन्योऽस्मीत्याशङ्कयाऽऽह-विज्ञातेति । मातरं पृष्ट्वा विज्ञा. याऽऽगम्यतामित्याशङ्कयाऽऽह-कि वित्यादिना ॥ ३ ॥ ४ ॥ त होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधर सोम्याऽऽहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः सोम्यानुसंबजेति ता अभिप्रस्थापयन्नुवाच नासहस्रेणाऽऽवतयेति स ह वर्षगणं प्रोवास ता यदा सहस्र५ संपेदुः ॥ ५॥ इति चतुर्थाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ __तं होवाच गौतमो नैतद्वचोऽब्राह्मणो विशेषेण वक्तुमर्हत्यार्जवार्थसंयुक्तम् । ऋजवो हि ब्राह्मणा नेतरे स्वभावतः। यस्मान्न सत्याद्राह्मणजातिधर्मादगा नापेतवानसि । अतो ब्राह्मणं त्वामुपनेष्येऽतः संस्कारार्थ होमाय समिधं सोम्याऽऽहरेत्युक्त्वा तमुपनीय कृशानामवलानां गोयूथानिराकृत्यापकृष्य चतु:शता चत्वारि शतानि गवामुवाचेाँ गाः सोम्यानुसंव्रजानुगच्छ । इत्युक्तस्ता अरण्यं प्रत्यभिप्रस्थापयन्नवाच-नासहस्रेणापूर्णन सहस्रेण नाऽऽवर्तेय न १ ख. अ. नु सौम्या । २ क. ख. गः अ. द. "गोबशि । व. गोत्रो हि शि°। ३ क. ख. ग. ञ. ट. ण, तं हेत्यादिना। ४ ख.अ. द. घ५ सौम्या । ५ ख. र. °माः सौम्या । ६ ख. अ. द. धं सौम्या । ७ ख. ग. ज. ट. ण, त्यापाका ८ क. ग. ट. ठ. ढ. °मा गा इमाः सो