पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२१४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[४ चतुर्थाध्यायेप्रत्यागच्छेयम् । स एवमुक्त्वा गा अरण्यं तृणोदकबहुलं द्वंद्वरहितं प्रवेश्य स ह वर्षगणं दीर्घ प्रोवास पोषितवान् । ताः सम्यग्गावो रक्षिता यदा यस्मिन्काले सहस्रं संपेदुः संपन्ना बभूवुः ॥ ५॥ इति चतुर्थाध्यायस्य चतुर्थः खण्डः ॥ ४॥ ब्राह्मणस्य वाऽनतं विना कथमार्जवसंयुक्तवचनमित्याशङ्कयाऽऽह-जवो हीति। क्षत्रियादीनामपि केषांचिदार्जवमस्तीत्याशङ्कयाऽऽह-नेतर इति । ऋजुबचनत्वेन ब्राह्म. णत्वं प्रतिजानीते--यस्मादिति । उपनीयाध्याप्य चेति शेषः । तस्यानुग्रहार्थं शुश्रूषामादिष्टवानित्याह-कृशानामिति । आचार्यनियोगश्च शिष्येण सफली कर्तव्य इत्याशयेनाऽऽह--इत्युक्त इति । संपन्ना बभूवुस्तदैनमृषभोऽभ्युक्तवानिति संबन्धः ॥५॥ इति चतुर्थाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ ( अय चतुर्थाध्यायस्य पञ्चमः खण्डः।) अथ हैनमृषभोऽयुवाद सत्यकाम ३ इति भगव इति ह प्रतिशुश्राव प्राप्ताः सौम्य सहस्र५ स्मः प्रापय न आचार्यकुलम् ॥ १॥ तमेतं श्रद्धातपोभ्यां सिद्धं वायुदेवता दिक्संबन्धिनी तुष्टा सत्यृषभमनुपवि. श्यर्षभापन्नाऽनुग्रहायाथ हैनमृषभोऽभ्युवादाभ्युक्तवान्सत्यकाय ३ इति संबोध्य, तमसौ सत्यकामो भगव इति ह प्रतिशुश्राव प्रतिवचनं ददौ । प्राप्ताः सौम्य सहस्त्रे स्मः पूणों तव प्रतिज्ञाऽत: मापय नोऽस्मानाचाय कुलम् ॥ १ ॥ कथमृषभः सत्यकामं प्रतिवक्तुमलं न हि लोके बलीवर्दस्य मनुष्यं प्रति प्रतिवचनं दृष्टमत आह-तमेतमिति । सत्यकामं श्रद्धादिसंपन्नमैनमथ तस्यामवस्थायामृषभोऽनुग्रहायाभ्युवादेति संबन्धः । ऋषभस्य स्वरूपमाह-वायुदेवतेति । अरण्ये तत्र तत्र गाश्चारयत: श्रद्धापूर्वकं तपश्चरतो वायुदेवता कथं तुरेत्याशङ्कयाऽऽह---दिक्संबन्धिनीति ॥१॥ १ ख. छ. . ण: चनेन। २ ख. झ. ज. सौम्य । २ ख. ङ ञ. ठ. ड. ण. तमेनं । ४ ठ. भमः। ५ण, दत्तवानित्यर्थः । प्रा। ६स. ध.. सौम्य । ७ ण, मेनामि।