पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

पञ्चमः खण्डः ५] छान्दोग्योपनिषत् । २१५ ब्रह्मणश्च ते पादं भवाणीति बबीतु मे भगवानिति तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम ॥ २ ॥ किंचाहं ब्रह्मणः परस्य ते तुभ्यं पादं ब्रवाणि कथयोनि । इत्युक्तः प्रत्यु. वाच–ब्रवीतु कथयतु मे मह्यं भगवान् । इत्युक्त ऋषभस्तस्मै सत्यकामाय होवाच । प्राची दिकला ब्रह्मणः पादस्य चतुर्थो मागः । तथा प्रतीची दिक्कला दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य ब्रह्मणः पादश्चतुष्कलश्चतस्रः कला अवयवा यस्य सोऽयं चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम प्रकाशवानित्येव नामाभिधानं यस्य । तथोत्तरेऽपि पादास्त्रयश्चतुष्कला ब्रह्मणः ॥ २ ॥ वाक्यान्तरं च मदीयं श्रूयतामित्याह--किंचेति । वायुदेवता दिक्संबन्धिनीत्युक्तत्वाहिग्गोचरमेव दर्शनमुवाचेत्याह--पाचीति । ब्रह्मणः पादस्येति व्यधिकरणे षष्ठ्यौ । एकाद एव ब्रह्मेति विभ्रमं व्युदस्यति-तथेति ॥ २ ॥ स य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते प्रकाशवानस्मिल्लोके भवति प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ३ ॥ इति चतुर्थाध्यायस्य पञ्चमः खण्डः ॥५॥ स यः कश्चिदेवं यथोक्तमेतं ब्रह्मणश्चतुष्कलं पादं विद्वान्प्रकाशवानित्यनेन गुणेन विशिष्ठमुपास्ते तस्येदं फलं प्रकाशवानस्मिल्लौके भवति भख्यातो भवतीत्यर्थः । तथाऽदृष्टं फलं प्रकाशवतो हे लोकान्देवादिसं. १ क. अ. सौम्य । २ घ, ठ. ड. ह. ण. यामि । इ° । ३ क. व. ग. घ. ङ. त्र. ट, ४. ह. °ला तथा द° । ४ ख. अ. सौम्य । ५ ख. अ. ण. °स्य पादस्य मोऽ। ६ ग. द. पा. क्षेत्र । ७ ख. छ. . ण, विश्रभ।