पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२१६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [४ चतुर्थाध्यायेबन्धिनो मृतः सञ्जयति प्राप्नोति । य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ३॥ इति चतुर्थाध्यायस्य पञ्चमः खण्डः ॥ ५॥ प्रथमपादोपासकस्य दृष्टमदृष्टं च फलमाह-स य इत्यादिना । कस्येदं फलमित्युक्त पूर्वोक्तमेवोपासकमनुवदति- य एतमिति ॥ ३ ॥ इति चतुर्थाध्यायस्य पञ्चमः खण्डः ॥ ५ ॥ ( अथ चतुर्थाध्यायस्य षष्ठः खण्डः । ) अमिष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ पोपविवेश ॥ १ ॥ सोऽग्निस्ते पादं वक्तेत्युपररामर्पभः स सत्यकामो ह श्वोभूते परेछुनैत्यक नित्यं कर्म कृत्वा गा अभिप्रस्थापयांचकाराऽऽचार्यकुलं प्रति । ताः शनैश्चरन्त्य आचार्यकुलाभिमुख्यः प्रस्थिता यत्र यस्मिन्काले देशेऽभि सायं निशायामभिसंबभूवुरेकत्राभिमुख्यः संभूताः, तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाथाय पश्चादयः प्रांडुपोपविवेर्श ऋषभवचो ध्यायन् ॥ १॥ अवशिष्टं पादत्रयं कथं द्रष्टव्यमिति बुभुसमानं सत्यकामं प्रत्याह-सोऽग्निरिति । अविदुषो विद्याभिमाननिमित्तकर्मत्यागो न युक्त इति मत्वाऽऽह-सत्यकाम इति । अभि सायं बभूवुः सायंकालं प्राप्ला इति यावत् । तस्य ब्रह्मचर्यमव्यावृत्तमिति सूचयतितत्रेति । उपोपविवेश तत्रोपशब्दाभ्यां गवामग्नेश्च सामीप्ये निवेशनमस्योच्यते । अर्थिने विद्या वक्तव्येति सूचयति-ऋषभेति ॥ १ ॥ तमग्निरायुवाद सत्यकाम ३ इति भगव इति ह पतिशुश्राव ॥२॥ १ क. ख. ग. व. ङ. च. अ. ट ठ . ड. द. मिटे पा । २ . °त्युक्त्वोप । ३ क. ख. ग. ङ. अ. ट. ट. ड. ण. भः सत्य । ४ ख. व. ड. च. अ. 3. ड. उ. प. के कृ । ५8. स्मिन्देशे । ६ क. भिब । ७ च. ठ. पालख उपो। ८ पा. श स । ९क. ग.. मीप्यान।