पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

पष्ठः खण्डः ६] छान्दोग्योपनिषत् । २१७ तमग्निरभ्युवाद सत्यकाम ३ इति संयोध्य, तमसौ सत्यकामो भगव इति ६ प्रतिशुश्राव प्रतिवचनं ददौ ॥२॥ - ॥२॥ ब्रह्मगः सोम्य ते पादं ब्रवाणीति बबीतु मे भगवानिति तस्मै होवाच पृथिवी कलाऽन्तरिक्षं कला यौः कला समुद्रः कलैष पै सम्धि चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम ॥ ३ ॥ ब्रह्मणः सौम्य ते पादं ब्रवाणीति बबीतु मे भगवानिति तस्मै होचाच पृथिवी कलाऽन्तरिक्षं कला द्यौः कला समुद्रः कलेत्यात्मगोचरमेव दर्शनमग्निरब्रवीत् । एष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम ॥३॥ ____ आत्मगोचरमग्नेश्चास्य विद्यमानमित्यर्थः । यद्वा पृथिव्यादिरूपेण ग्नेरवस्थानादग्निविषयमित्यर्थः । यथोक्त पादे गुणविशेषं निर्दिशति-एष वा इति ॥ ३ ॥ स य एतमेवं विद्वाश्चतष्कलं पादं ब्रह्मणोऽनन्तचा-- नित्युपास्तेऽनन्तवानस्मॅिल्लोके भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ ४ ॥ - इति चतुर्थाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ स यः कश्चिद्योक्तं पादमनन्तवत्त्वेन गुणेनोपास्ते स तथैव तद्गो भवत्यस्मिल्लोके मृतश्चानन्तवतो ह लोकान्स जयति य एतमेवमित्यादि पूर्ववत् ॥ ४ ॥ इति चतुर्थाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ द्वितीयपादोपासकस्य द्विविध फलं दर्शयति--स य इति । यथोक्त चतुष्कलामति थावत् । तथैवोपास्यगुणानुरोधेनेत्यर्थः । तद्गुणस्तेन गुणन गुगवाननन्तबानविच्छिन्नसं तानो भवतीत्यर्थः । अनन्तवतो लोकानक्षयानित्येतत् ॥ ४॥ इति चतुर्थाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ १ क ख. सौम्य । २ ख. अ. सौम्य । ३ ख. ङ. . सौम्य । ५ ख. व. अ. सौम्य ।। ५ क. थोक्तपा । ६ क.ग, ङ, च. र. ठ ड . °न्तत्वेन । ७ इ. 'स्ते त। सब. का है. काय।