पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

आनन्दगिरिकृत्टीकासंवलितशांकरभाष्यसमेता-[४ चतुर्थाध्याये-- - (अथ चतुर्थाध्यायस्य सप्तमः खण्डः ।) ह सस्ते पादं वनेति स ह श्वोभूते गा अभिप्रस्थापयांचकार ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राडु:पोपविवेश ॥ ३ ॥ त५ हस उपनिपत्यायुवाद सत्य काम३ इति PER भगव इति ह प्रतिशुश्राव ॥ २ ॥ सोऽग्निहसरते पादं वक्तेत्युक्त्वोपरराम । हंस आदित्यः । शौक्लयात्पतनसामान्याच्च । स ह श्वोभूत इत्यादि समानम् ॥ १ ॥ २॥ अवशिष्टपादद्वयं कथं ज्ञातव्यमिति जिज्ञासमानं प्रत्याह-सोऽग्निरिति । पक्षिविशेष. विघयत्वं हंसशब्दस्य व्यावर्तयति-आदित्य इति । कथं तत्र हंसशब्दस्य प्रवृत्तिरित्याशङ्कयाऽऽह-शौक्लयादिति ॥ १॥ २॥ ब्रह्मणः सोम्य ते पादं ब्रवाणीति बबीतु मे भगवानिति तस्मै होवाचामिः कला सूर्यः कला चन्द्रः कला विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम ॥ ३ ॥ स य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मगो ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मॅिल्लोके भवति ज्योतिप्मतो ह लोकाञ्जयति य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४ ॥ इति चतुर्थाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ अग्निः य.ला सूर्यः कला चन्द्रः कला विद्युत्कलैप वै सौम्यति ज्योतिर्विषयमेव च दर्शनं प्रोवाचातो हंसस्याऽऽदित्यत्वं प्रतीयते । १ ख. अ. सौम्य । २ ख. अ सौम्प । ३ ख. अ. सौम्येति ।