पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२१९ अष्टमः खण्डः ८] छान्दोग्योपनिषत् । चिद्वत्फलं-ज्योतिष्मान्दीप्तियक्तोऽस्मिल्लोके भवति । चन्द्रादित्यादीनां ज्योतिध्मत एवं च मृत्वा लोकाञ्जयति । समानमुत्तरम् ॥ ३ ॥ ४ ॥ इति चतुर्थाध्यायस्य सप्तमः खण्डः ॥७॥ आदित्योऽपि स्वविषयमेव दर्शनमुक्तवानित्याह---अग्निरिति । तृतीये प.देऽपि गुणविशेषमुपदिशति-एष वा इति । यतो हेतोज्योतिर्विषयमेव दर्शनमुक्तवानत एवं तस्याऽऽदित्यत्वं प्रतिभातीत्यादित्यत्वे हंसस्य गमकान्तरमाह-ज्योतिर्विषयमेवेति । य एतमेवं विद्वानित्याद्युत्तरम् ॥ ३ ॥ ४ ॥ इति चतुर्थाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ (अथ चतुर्थाध्यायस्याष्टमः खण्डः ।) मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार ता यत्राभि सायं बभूवुस्तत्रानिमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादनेः । प्राकुपोपविवेश ॥१॥ हंसोऽपि सद्गले पादं वक्तेत्युपरराम । मद्रुदकचरः पक्षी स चाप्संबन्धा. माणः । स ह श्वोभूत इत्यादि पूर्ववत् ॥१॥ • अवशिष्टं पादान्तरं तर्हि कथं ज्ञायतामित्याशङ्कयाऽऽह-हंसोऽपीति । मद्श. ब्दस्य वाच्यमर्थमन्वाचष्टे-मद्गुरिति । तस्य कथं सत्यकामं प्रत्युपदेष्टत्वमत आहस चेति ॥ १॥ तं मद्गुरुपनिपत्या युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥ ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैप वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ ३ ॥ .....१.क.ग. च. ट..ड. व म° । २ च. ढ, ण...त्युक्त्वोप ३-ख. झ. अ. सौम्य । ४ ख. ग. सौम्य।