पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२२० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-४ चतुर्थाध्याये-- - स च मद्गुः प्राणः स्वविषयमेव च दर्शनमुवाच प्राणः कलेत्याद्यायतनवानित्येवं नाम । आयतनं नाम मनः सर्वकरणोपहतानां भोगानां तद्यस्मिन्पादे विद्यत इत्यायतनवान्नाम पादः ॥ २ ॥३॥ ____तं मद्गुरुपनिपत्येत्यत्र मद्गशब्दार्थ पूर्वोक्तमेव रमारयति-मद्ः माण इति । प्राणः कलेत्याद्यायतनवानित्येवमिति यथोक्तगुणं समर्थयते-आयतनमित्यादिना । तद्यस्मि. न्पादे वर्तते सोऽयमायतनवान्नाम' पाद इति द्रष्टव्यमिति योजना ॥ २॥ ३ ॥ १. स य एनमेवं विद्वा ५श्चतष्कलं पादं ब्रह्मण आयतन वानित्युपास्त आयतनवानस्मिल्लोके भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मण आयत्तन वानित्युपास्ते ॥ ४ ॥ ... इति चतुर्थाध्यायस्याष्टमः खण्डः ॥८॥ तं पादं तथैवोपास्ते यः स आयतनवानाश्रयवानस्मिल्लोके भवति । तथाssयतनवत एव सावकाशाल्लोकान्मृतो जयति । य एतमेवमित्यादि पूर्ववत् ।।४।। १ इति चतुर्थाध्यायस्याष्टमः खण्डः ॥ ८ ॥ द्विविधं विद्याफलमभिधत्ते-तं पादमिति । तथैवाऽऽयतनवत्त्वगुणाक्रान्तत्वेनैवे. त्यर्थः ॥ ४ ॥ इति चतुर्थाध्यायस्याष्टमः खण्डः ॥ ८ ॥ ( अथ चतुर्थाध्यायस्य नवमः खण्डः ।) प्राप हाऽऽचार्यकुलं तमाचार्योऽयुवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ १ ॥ स एवं ब्रह्मवित्सन्माप ह प्राप्तवानाचार्यकुलम् । तमाचार्योऽभ्युवाद सत्यकाम३ इति । भगव इति ह प्रतिशुश्राव ।। १ ॥ १५. च. व द' । २ ख. छ. ज ण. यापाद् । ३ ३. नगु !