पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

नवमः खण्ट: ९] छान्दोग्योपनिषत् ।। २२१ ब्रह्मविदिव चै सोम्य भासि को नु त्वाऽनुशशासेत्यन्ये मनुष्येय इति ह प्रतिजज्ञे भगवाश्स्त्वेव मे कामे ब्रूयात् ॥ २ ॥ ब्रह्मविदिच वै सौम्य भासि । प्रसन्नेन्द्रियः प्रहसितवदनश्च निश्चिन्तः कृतार्थो ब्रह्मविद्भवति । अत आचार्यों ब्रह्मविदिव भासीति को न्विति वितकेयनुवाच कस्त्वामनुशशासेति । स चाऽऽह सत्यकामोऽन्ये मनुष्येभ्यः । देवता मामनुशिष्टवत्यः । कोऽन्यो भगवच्छिष्यं मां मनुष्यः सन्ननुशासितुमुत्सहेतेत्यभिप्रायः । अतोऽन्ये मनुष्येभ्य इति ह प्रतिजज्ञे प्रतिज्ञातवान् । भगवांस्त्वेव मे कामे ममे. च्छायां ब्रूयात्किमन्यैरुक्तेन नाहं तद्गणयामीत्यभिप्रायः ॥२॥ ब्रह्मविदिव भासीत्युक्त कीदृशो ब्रह्मविदित्यपेक्षायामाह-प्रसन्नेन्द्रिय इति । सत्यकामस्यापि तल्लक्षणवत्त्वमतःशब्दार्थः । मां त्वदाचार्यमवज्ञाय मच्छिष्यं त्वां कोऽन्यो मनुष्यो मच्छापादभीतः शिष्यत्वेनाऽऽदायानुशासनं कृतवान्यदनुशासनात्ते ब्रह्मविद्या जातेति साक्षेप पृच्छति-कस्त्वामिति । मनुष्येभ्यः सकाशादन्ये मामनुशिष्टवन्त इति सामान्यप्रतिज्ञां विभजते--देवता इति । देवतान मेवोपदेष्ट्रत्वं व्यतिरंकद्वारा विशदयति--कोऽन्य इति । प्रतिज्ञां निगमयति--अत इति । मया तींदानी न किंचिदस्ति तव कर्तव्यमित्याशङ्कां वारयति-भगवानिति ॥ २ ॥ श्रुत ह्येव मे भगवदृशेत्य आचार्याद्वैव विद्या विदिता साधिष्ठं प्रातीति तस्मै हैतदेवोवाचात्र ह न किंचन वीयायेति वीयायेति ॥ ३॥ इति चतुर्थाध्यायस्य नवमः खण्डः ॥९॥ . किंच श्रुतं हि यस्मान्मम विद्यत एवास्मिन्नर्थे भगवदृशेभ्यो भगवत्समेभ्य ऋषिभ्यः । आचार्याद्धैव विद्या विदिता साधिष्ठं साधुतमत्वं प्रापंति प्रामोती. त्यतो भगवानेव ब्रूयादित्युक्त आचार्योऽब्रवीत्तस्मै तामेव दैवतैरुक्ता विद्याम् । अत्र ह न किंचन षोडशकलविद्याँयाः किंचिदेकदेशमात्रमपि न वीयाय न - - ...- १. ख. न. सौम्य । २ ख. अ. सौम्य । ३ क. म. घ. ट. ह. भव । ४ क. ग. 3. न्येऽनु। ५ ख. घ. ज. अ. ठ. ण, पदिति । ६. क. ख. ग. इ. स. ढ. ह. भ. पदिति । ७ घ. ठ. द्यायां कि।