पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२२२ आनन्द गिरिकृतटीकासंवलितशांकरभाष्यसमेता-[४ चतुर्थाध्याये-- विगतमित्यर्थः । द्विर भ्यासो विद्यापरिसमाप्त्यर्थः ॥ ३ ॥ व इनि चतुर्थाध्यायस्य नवमः खण्डः ॥ ९ ॥ या 3 इतश्च भगवानेव ब्रवीतु मे विद्यामित्याह-किंचेति । तदेव कारणं दर्शयतिश्रुतमिति । अस्मिन्नर्थ आचार्यादेव विद्या श्रोतव्यैवलक्षणे । श्रुतमेव विशदयतिआचार्यादिति । विदिता प्राप्तति यावत् । आचार्याधीना धीरेव फलवतीत्यत:शब्दार्थः । विद्यान्तरमाचाणोन मिति शङ्कामेवकारेण वारयति । दैवतैराचार्येण च सत्यकामायोक्तां विद्यामस्मान्प्रति श्रुतिपियंति-अत्रेति । न विगतं किंतु पूर्णव विद्या वाय्वादिभिराचार्येण चोपदिष्टेति शेषः । तत्रापि पादचतुष्टयानुध्यानसमुचितमेकमेव विज्ञानं तत्फलं च संहृत्यैकविज्ञानफलत्वेन परिणेयमेकैकपादोपासनस्य कृतार्थत्वाहेतुत्वादित्याचार्योपदेशस्यैव सार्थकत्वमिति द्रष्ट रम् ॥ ३ ॥ इति चतुर्थाध्यायस्य नवमः खण्डः ॥ ९ ॥ (अथ चतुर्थाध्यायस्य दशमः खण्डः।) पुनर्ब्रह्मविद्या प्रकारान्तरेणं वक्ष्यामीत्यारभते गति च तद्विदोऽग्निविद्यां च । आख्यायिका पूर्ववच्छ्रद्धातपसोब्रह्मविद्यासाधनत्वप्रदर्शनार्था उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास तस्य ह द्वादश वर्षाण्य मीन्परिचचार स ह स्मान्यानन्तेवासिनः समावर्तयश्स्त५ ह स्मैव न समावर्तयति ॥ १ ॥ उपकोसलो ह वै नामतः कमलस्यापत्यं कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास तस्य हैं ऐतिह्यार्थः । तस्याऽऽचार्यस्य द्वादश वर्षाण्यग्नीपरिचचारानीनां परिचरणं कृतवान् । स ह स्माऽऽचार्योऽन्यान्ब्रह्मचारिणः स्वाध्याय ग्राहयित्वा समावतेयस्तमेवोपकोसलमेकं न:समावर्तयति स्म ह ॥ १॥ - सप्रपञ्चब्रह्मोपासनमुक्त्वा कार्यब्रह्मोपासनसमुच्चितं कारणब्रह्मोपासनं वक्तुं खण्डान्त । १ क. 'लती । २ . ण प्रव । ३ ख. कोशलो । ४ ख. प. ट, कोशलो । ५ ङ, ण. 'स्य ह.55 चा । ६ क. कोश ।