पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

दंशमः खण्डः १० ] छान्दोग्योपनिषत् । सीमा २२३ रमवतारयति --पुनरिति । न केवलं ब्रह्मविद्याशेषत्व दित्यर्थः । पूर्ववदिति । यथा पूर्वस्मिन्खण्डे श्रद्धातपसोझोपासनाङ्गत्वप्रदर्शनायाऽऽख्यायिकेत्युक्तं तद्वदित्यर्थः ॥ १ ॥ तं जायोवाच तप्तो ब्रह्मचारी कुशलमनीपरिचचारीन्मा त्वाऽग्नयः परिप्रयोचन्प्रबृह्यस्मा इति तस्मै हाप्रोच्यैव प्रवासांचक्रे ॥ २ ॥ तमाचार्थ जायोवाच तप्तो ब्रह्मचारी कुशलं सम्यगनोन्परिचचारीत्परिचरितवान् । भगवांश्चाग्निषु भक्तं न समावर्तयति । अतोऽस्मद्भक्तं न समावर्तयतीति ज्ञात्वा त्वाममयो मा परिप्रवोचगहों तव मा कुर्युः । अतः प्रबह्यस्मै विद्यामिष्टामुपकोसलायेति । तस्मा एवं जोययोक्तोऽपि हापोच्यैवानक्वैव किंचिप्रवासांचक्रे प्रवसितवान् ॥ २॥ तप्त इति । भवदपेक्षितां शुश्रूषां विदधानो बहुकायक्लेशं कृतवानित्यर्थः । विवक्षित. शुश्रूषाकरणमेव विशदयति --कुशलमिति । किमिति भवत्या मां Jहादमिदानीमुच्यते न हि मत्तोऽन्यत्र त्वदनुरागो युक्तिमानित्याशङ्कय भगवति स्नेहादियाह-भगवानिति । अग्नीपरिचरमाणब्रह्मचारिणोऽसमावर्तनमतःशब्दार्थः । गर्हापरिहारो द्वितीयेनात:शब्देन परामृश्यते । आचार्यशुश्रूषापरं शिष्पं देवतैवानुगृह्वातीति ज्ञापयितुमारभते--तस्मा इति ॥ २॥ स ह व्याधिनाऽनशितुं दधे तमाचार्यजायोवाच ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधिभिः प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥३॥ स होपकोसलो व्याधिना मानसेन दुःखेनानशितुमनशनं कर्तुं दधे धृतवान्मनः । तं तूष्णीमग्न्यागारेऽवस्थितमाचार्यजायोवाच हे ब्रह्मचारिनशान भक्ष्व किं नु कस्मान्नु कारणान्नाश्नासीति । स होवाच बहवोऽनेकेऽस्मिन्पुरुषेऽ. कृतार्थे प्राकृते कामा इच्छाः कर्तव्यं प्रति नानाऽत्ययोऽतिगमनं येषां व्याधीनां कर्तव्यचिन्तानां ते नानात्य या व्याधयः कर्तव्यताप्राप्तिनिभित्तानि चित्तदःखानीत्यर्थः । तैः प्रतिपूर्णोऽस्मि । अतो नाशिष्यामीति ॥ ३ ॥ १ ख. घ. कोशला । २ ख. अ. जायो । ३ क. बृहीतीद । ४. व. कोशलो।