पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२२४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[४ चतुर्थाध्याये। आचार्याभिप्रायमजानतः शिष्यस्य दुःखप्राप्तिं दर्शयति–स हेति । अतिगमन वस्तुस्वरूपमतीत्य विषयेषु प्रवेश इति यावत् । नानात्यया इति कामानां विशेषणम् । कथं तेन व्याधयो विशेष्यन्ते तत्राऽऽह-कर्तव्योति । कामा एव व्याधय इत्यर्थः ॥ ३॥ अथ हामयः समूदिरे तो ब्रह्मचारी कुशलं नः पर्यचारीद्धन्तास्मै प्रबवामेति तस्मै होचुः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति ॥ ४ ॥ उक्त्वा तूष्णीभूते ब्रह्मचारिण्यथ हाग्नयः शुश्रूषया वर्जिताः कारुण्याविष्टाः सन्तस्त्रयोऽपि समूदिरे संभूयोक्तवन्तः । हन्तेदानीमस्मै ब्रह्मचारिणेऽस्मद्भक्ताय. दुःखिताय तपस्विने श्रद्दधानाय सर्वेऽनुशास्मोऽनुमब्रवाम ब्रह्मविद्यामिति । एवं संप्रधार्य तस्मै होचुरुक्तवन्तः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति ॥ ४ ॥ आचार्यप्रघासात्तज्जायाया ब्रह्मचारिण्यनुग्रहात्तस्य . चानशनाध्यवसायादनन्तरमित्ययश. . ब्दार्थः । हन्तेति यद्यर्थोऽस्मद्भक्तं ब्रह्मचारिणमुपेक्ष्य देशान्तरं गतस्तहीति यावत् । अथ पुनरेत्याऽऽचार्यो ब्रह्मविद्यामस्मै विवक्षितां च वक्ष्यति किं त्वरयेत्याशङ्कयाऽऽह-दुःखितायेति । ब्रह्मविद्यासाधनसंपत्तिमस्य दर्शयति-तपस्विन इति ।। ४ii . स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च | तु खं च न विजानामीति ते होचर्यद्वाव के तदेव खं यदेव खं तदेव कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ५॥ ___इति चतुर्थाध्यायस्य दशमः खण्डः ॥ १॥ स होवाच ब्रह्मचारी विजानाम्यहं यद्भवद्भिरुक्तं प्रसिद्धपदार्थकत्वात्माणो ब्रह्मेति । यस्मिन्सति जीवनं यदपगमे च न भवतीति तस्मिन्वायुविशेषे लोक रूढोऽतो युक्तं ब्रह्मत्वं तस्य । तेन प्रसिद्धपदार्थकत्वाद्विजानाम्यहं यत्प्राणो ब्रह्मेति । कं च तु खं च न विजानामीति । ननु कखंशब्दयोरपि सुखाकाशविषयत्वेन प्रसिद्धपदार्थकत्वमेव, कस्माद्ब्रह्मचारिणोऽज्ञानम् । नूनं सुखस्य कंशब्दवा १. वे म । २ ग. ट, तां व ३ ठ. र्थत्वा । ४. क. ग. ङ. च. ट, ढ, 'ति। - यी ५ च, द. त्वं च त ६ छ. थत्वा । ७ ख. य. ब. ण. 'शयोर्षिष |