पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

दशमः खण्डः१०] छान्दोग्योपनिपत २२५ च्यस्य क्षणप्रध्वंसित्वावंशब्दवाच्यस्य चाऽऽकाशस्याचेतनस्य कथं ब्रह्म मिति मन्यते । कथं च भवतां वाक्यमप्रमाणं स्यादिति । अतो न विजानामीस्याह । आणो ब्रहोति भवद्भिरक्तं तदहं विजानामीति संबन्धः । तन हेतुमाह - प्रसिद्धति । प्राणपदस्य प्रसिद्धार्थत्वमेव समर्थयते--यस्मिन्निति । एवंभूतः प्राणशब्द इति शेषः । शाणशब्दस्य प्रसिद्धार्थत्वेऽपि कुतो ब्रह्मः तस्मिन्प्रसिद्धमित्याशङ्कयाऽऽह-अत इति । कार्यकरणसंघाते नष्टेऽग्रहणादियतःशब्दार्थः । स्वकीयज्ञानसमुच्चयार्थश्चकारः । विजाना. म्यहमित्युक्तमुपसंहरति-तेनेति । स्वेनाज्ञातं ब्रह्मचारी दर्शयति-कं चेति । तस्याज्ञानमाक्षिपति-नन्विति । प्राणशब्दस्य वायुविशेषविषपत्वेन प्रसिद्धार्थत्ववदित्यपेरर्थः । ब्रह्मचारिणोऽभिप्नायं दर्शयनुत्तरमाह-नूनमिति । ननु विरुद्धार्थवादग्नीनां वाक्यं भव. स्वप्रमाणमित्याशङ्कयाऽऽह-कथं चेति । विरुद्धार्थःवप्रतीतेराप्तवाक्यस्य चाप्रामाण्यायोगाद्युक्तं ब्रह्मचारिणोऽज्ञानमिति निगमयति -अत इति । तमेवमुक्तवन्तं ब्रह्मचारिणे ते हाग्नय ऊचः । यद्वाव यदेव वयं कमवोचाम वदेव खमाकाशमित्येवं खेन विशेष्यमाणं के विषयेन्द्रियसंयोगजारसुखानिव. र्तितं स्यानीलेनेव विशेष्यमाणमुत्पलं रकादिभ्यः । यदेव खमित्याकाशमवोचाम तदेव च कं सुखमिति जानीहि । एवं च सुखेन विशेष्यमाणं खं भौतिकादचेतनात्खानिवर्तितं स्यान्नीलोत्पलवदेव । सुखमाकाशस्थं नेतरल्लौकिकमा: काशं च सुखाश्रयं नेतरद्भौतिकमित्यर्थः । नन्वाकाशं चेत्सुखेन विशेषयितुमिपृष्टमस्त्वन्यतरदेव विशेषणं यद्वाव कं तदेव खमित्यतिरिक्तमितरत् । यदेव खं तदेव कमिति पूर्वविशेषणं वा । ननु सुखाकाशयोरुभयोरपि लौकिकसुखा. काशाभ्यां व्यावृत्तिरिष्टेत्यवोचाम ।। खस्य विशेषणत्वं कस्य च विशेष्यत्वमित्यङ्गीकारे फलं कथयति-इत्येवमिति । कस्य विशेषणत्वं खस्य विशेष्यत्वमित्येवमपि विशेषणविशेष्यत्वमवगन्तव्यमित्याह ---यदेवेति । यथोक्तविशेषणविशेष्यभावे फलमाह-एवं चेति । यावेत्यादिवाक्यार्थमुक्तमेव प्रतिपत्ति. सौकर्यार्थ संक्षिपति-सुखमिति । इतरेतरविशेषणविशेष्यत्वमाक्षिपति-नन्विति । अन्यतरदेवेत्यत्र यदेव खमित्येतदुच्यते यद्वाव कं तदेव खमित्यत्र यद्भाव कमितीतरद्विशेषणमतिरिक्तमधिकमकिंचित्करमिति योजना । यदि तु यदेव खं तदेव कमिति खेन के १ क. ङ. भगव' । २ ख. छ. अ. ण. पि ब्रह्मत्वं कुतः प्रसि' । ३ क. अ. है. र्यकार । ४ क. ग. घ. ऊ. च. र. खमा । ५ ख. छ. अ. प. रविशे । २९