पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२२६ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता-[४चतुर्थाध्यायेविशेष्यते, तदा यदेव खमित्येतदेव विशेषणमस्तु । यद्वाब कमिति पूर्वविशेषणमकिंचित्करमित्याह-यदेवेति । वाशब्दोऽतिरिक्तमित्येतदनुकर( र्ष )णार्थः । विशेषणयोरर्थवस्त्र पूर्वोक्तं सिद्धान्ती स्मारयति-नन्विति । तथा च सुखस्य लौकिकसुख द्यावृत्यर्थं यदेव खमिति विशेषणमाकाशस्य च लौकिकाकाशाद्व्यावृत्त्यर्थं यद्वाव कमिति विशेषणमर्थव. दिति शेषः । । सुखेनाऽऽकाशे विशेषिते व्यावृत्तिरुभयोरर्थप्राप्तवेति चेत्सत्यमेवं किंतु सुखेन विशेषितस्यैवाऽऽकाशस्य ध्येयत्वं विहितं न त्वाकाशगुणस्य विशेषणस्य सुखस्य ध्येयत्वं विहितं स्यात् । विशेषणोपादानस्य विशेषनियन्तृत्वेनैघोपक्षयात् । अतः खेन सुखमपि विशेष्यते ध्येयत्वाय । कुतश्चैतन्निश्चीयते । कंशब्दस्यापि ब्रह्मशब्दसंबन्धात्कं ब्रह्मेति । यदि हि सुखगुणविशिष्टस्य खस्य ध्येयत्वं विवक्षितं स्यात्कं खं ब्रह्मेति युरग्नयः प्रथमम् । न चैवमुक्तवन्तः । किं तर्हि कं ब्रह्म खं ब्रह्मेति । अतो ब्रह्मचारिणो मोहापनयनाय कंखंशब्द. योरितरेतरविशेषणविशेष्यत्वनिर्देशो युक्त एव यद्वीव कमित्यादिः। - अन्यतरविशेषणवशादपि यथोक्तव्यावृत्तिसिद्धेराकिंचित्करं विशेषणद्वयमिति शङ्कतेसुखेनेति । यदा सुखेनाऽऽकाशं विशेष्यते तदा भूताकाशादाकाशं व्यावर्तितं भवति सुखस्य तद्विशेषणत्वायोगात् । सुखमपि लौकिक सुखाद्व्यवच्छिद्यते । लौकिकसुखस्याss काशविशेषणत्वांनुपपत्तेः । अतः सुखेनाऽऽकाशस्याऽऽकाशेन सुखस्य वा विशेषितत्वसामात्प्राप्तैत्र खाकाशयोल किकसुखाकाशाभ्यां व्यावृत्तिरित्यन्यतरदेव विशेषणमर्थवदित्यर्थः । किमन्यतरस्यैव विशेषणस्य व्यावकित्यमित्यापद्यते किं वा तस्यैवार्थवत्वमिति तत्राऽऽद्यमङ्गी करोति-सत्यमेवमिति । द्वितीयं दापयति-न वित्यादिना । विशिष्टस्यैव ध्येयत्वे विशेषणस्यापि ध्येयत्वं सिध्यतीति चेन्नैवं दण्डी प्रैषानन्धाहतिवद्विशेषणस्यान्यथासिद्धत्वादित्याह-विशेषणेति । द्वयोरपि विशेषणयोरर्थवावं निगमयति-अन इति । विधान्तरेण ध्येयत्वासंभवादित्यत:शब्दार्थः । खमिव सुखेनेत्यपेरर्थः । इतश्च सुखाकाशयो. रितरेतरविशेषणविशेष्यत्वमेषितव्यमित्याह-कुतश्चेति । कुतःशब्दोपात्तमित शब्दार्थ रफुटयति-कंशब्दस्येति । खं ब्रह्मेति खंरब्दस्य ब्रह्मशब्दसंबन्धवदित्यपेरर्थः । गुणगुणिनोरुभयोरपि ध्येयत्वसिद्धयर्थमितरतर विशेषणविशेष्यत्वं कंशब्दस्य खंशब्दस्य च प्रत्येकं ब्रहशब्दसंबन्धादपि स्वीकर्तव्यमित्युक्तं व्यतिरेकद्वारा साधयति-यदि हीति । ख. ग. छ. अ. ठ. ण. विशिते ।२ क.च.मेव किं ३ ग. ड.च. त्र.ट. ण. "नायाय । ४ ख. च, ण, करवि । ५ ग, खमिति लौ । ६ ख. छ, अण. सत्यमेवेति ।