पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२२७ एकादशः खण्डः ११] छान्दोग्योपनिषत् । उक्तरीत्या द्वयोरपि ध्येयत्वमतःशब्दार्थः । ब्रह्मचारिणो मोहो नामान्योन्यविशेषणविशेष्यत्वाग्रहणादाकाशस्यैव गुणिनो ध्येयत्वं न तु सुखस्य गुणस्येति विभ्रमः । तदेतदग्निभिरुक्तं वाक्यार्थमस्मदोधाय श्रुतिराह-प्राणं च हास्मै ब्रह्मचारिणे । तस्याऽऽकाशस्तदाकाशः । प्राणस्य संबन्ध्याश्रयत्वेन हार्द आकाश इत्यर्थः । सुखगुणवत्वनिर्देशोतं चाऽऽकाशं सुखगुणविशिष्टं ब्रह्म तत्स्थं च प्राणं ब्रह्मसंपादेव ब्रह्मेत्युभयं प्राणं चाऽऽकाशं च समुच्चित्य ब्रह्मणी ऊचुरग्नय इति ॥ ५॥ इति चतुर्थाध्यायस्य दशमः खण्डः ॥ १० ॥ प्राणं चेत्यादि वाक्यं नाग्नीनां न ब्रह्मचारिणः । तथा च कथमुपाख्यायिकामिदं निर्वहतीत्याशङ्कयाऽऽह-तदेतदिति । आकाशस्य प्राणसंबन्धित्वं कया विधयेत्यपे. क्षायामाह -आश्रयत्वेनेति । कार्यब्रह्मोपासनसमुच्चितं कारणब्रह्मोपासनमुपसंहर्तुमितिशब्दः ॥ ५ ॥ इति चतुर्थाध्यायस्य दशमः खण्डः ॥ १०॥ CN (अथ चतुर्थाध्यायस्यैकादशः खण्डः।) mo 31S. अथ हैन गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति य एष आदित्ये पुरुषो दृश्यते सोऽहमास्मि स एवाहमस्मीति ॥ १ ॥ संभूयाग्नयो. ब्रह्मचारिणे ब्रह्मोक्तवन्तः । अथानन्तरं प्रत्येकं स्वस्व. विषयां विद्यां वक्तुमारेभिरे । तत्राऽऽदावेनं ब्रह्मचारिणं गार्हपत्योऽग्निरनुशशास । पृथिव्यग्निरन्नमादित्य इति ममैताश्चतस्रस्तनवः । तत्र य आदित्य एष पुरुषो दृश्यते सोऽहमस्मि गाहे त्योऽग्निर्यश्च गार्हपत्योऽग्निः स एवाहमादित्ये पुरुषोऽस्मीति । पुनः परावृत्त्या स एवाहमस्मीति वचनम् । पृथिव्यनयोरिव भोज्यत्वलक्षणयोः संबन्धो न गार्हपत्यादित्ययोः । अत्तृत्वपक्तृत्वप्रकाशैनधर्मा अविशिष्टा इत्यत एकत्वमेवानयोरत्यन्तम् । पृथिव्यन्नयोस्तु भोज्यत्वेनाऽऽभ्यां संबन्धः ॥ १॥ १ ख. छ. ग. तुझस्य । २ च. ठ. डे हादका । ३ ख ग. घ. ङ. च. अ. ट. ड. ढ. ण. शात्तच्चऽऽका । ४ . ग. ह. अ... ण.. कायामि । ख. अ. शत्वध । घ. च. क. ह. शकत्वध' । ६ ङ. ... वाऽऽयो । ७ घ, ङ, च. ठ. ड ढ ण °नाऽऽवाभ्यां ।