पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२२८ आनन्दगिरिकृतीकासंवलित शांकरभाष्यसमेता- [४ चतुर्धाध्याये प्रश्चानविद्यामुपदिश्याङ्गविद्याविधानायोपक्रमते-संभ्येति । अनन्तरं प्रधानविलेपदेशादिति शेषः । अग्निविद्यां वक्तुमारब्धानामग्नीनां मध्ये प्रथममिति श्रुतावथशब्दार्थः । पृथिव्यादिचतुष्टयमनूद्याग्न्यादित्ययोरवान्तरभेदं दर्शयति-- तत्रेति । एवमग्न्यादित्ययोस्तादात्म्यमितीतिशब्दार्थः । य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मीत्येतावतैव तयोस्तादारम्यसिद्धेः स एवाहमस्मीति पुनरुक्तिरनर्थिकेयाशङ्कयाऽऽह--पुनरिति । भोज्यत्वं लक्षणं स्वभावो ययोस्तयोगार्हपत्येन यथा संबन्धस्तथा मार्हपत्यादित्ययोर्न संबन्धः किंतु तादात्म्यलक्षण एवेत्यत्र हेतुमाह-अत्तत्वेति । पृथिव्यादावपि तादात्म्यं किं न स्थादित्याश. ङ्कयाऽऽह-पृथिवीति । आभ्यामम्यादित्याम्यामिति यावत् । स एवाहमस्मीति परावृत्त्या पुनर्वचनं यथोक्तार्थविशेषसिद्ध्यर्थमिति भावः ॥ १॥ स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुजामोऽस्मि श्व लोकेऽमुष्मिश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥ इति चतुर्थाध्यायस्यैकादशः खण्डः ॥ ११ ॥ स यः कश्चिदेवं यथोक्तं गाईपत्यमग्निमन्नानादत्वेन चतुर्धा प्रविभक्तमपास्ते सोऽपहते विनाशयति पापकृत्यां पापं कर्म । लोकी लोकवांश्चास्मदीयेन लोकेनाऽऽग्नेयेन तद्वान्भवति यथा वयमिह च लोके सर्वे वर्षशतमायुरेति प्राप्नोति ज्योगुज्ज्वलं जीवति नाप्रख्यात इत्येतत् । न चास्यावराश्च ते पुरुषाश्चास्य विदुपः संततिजा इत्यर्थः । न क्षीयन्ते संतत्युच्छेदो न भवतीत्यर्थः । कि च तं वयमुपभुञ्जामः पालयामोऽस्मिंश्च लोके जीवन्तममुष्मिश्च परलोके । य एतपेवं विद्वानुपास्ते यथोक्तं तस्यैतत्फलमित्यर्थः ॥ २ ॥ इति चतुर्थाध्यायस्यैकादशः खण्डः ॥ ११ ॥ उक्ताया विद्याया गाईपत्यविषयाया द्विविधं फलं दर्शयति-स यः कश्चिदित्यादिना । कस्यैतत्फलमित्यपेक्षायामुक्तमैव संक्षिपति-य एतमेवमिति ॥ २ ॥ - इति चतुर्थीध्यायस्यैकादशः खण्डः ॥ ११ ॥ १ञ, पापक। २ ख. त्र. "कवानस्म । ३ क.वांश्च मदी।४ ग.ह.चट.. की १५ख. ग. योऽस्मिता के । ६ घ. क. ठ. रेलो' ।