पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२२९ द्वादशः खण्डः १२ ] छान्दोग्योपनिषत् । मा ( अथ चतुर्थाध्यायस्य द्वादशः खण्डः।) अथ हैनमन्वाहार्यपचनोऽनुशशासाऽऽपो दिशो नक्षत्राणि चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥१॥ स य एतमेवं विद्वानुपास्तेऽपहते पापळत्या लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुजामोऽस्मि श्व लोकेडमुष्मिश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥ - इति चतुर्थाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ अथ हैनमन्वाहार्यपचनोऽनशशास दक्षिणाग्निरापो दिशौ नक्षत्राणि चन्द्रमा इत्येता. मम चतस्रस्तनवश्वतुर्धाऽहमन्वाहार्यपचन आत्मानं प्रविभज्यावस्थितः । तत्र य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मीति पूर्ववत् । अन्नसंबन्धाज्योनिष्ट्रसामान्याच्चान्वाहार्यपचनचन्द्रमसोरेकत्वं दक्षिणा(ण)दिक्संबन्धाच्च । अपां नक्षत्राणां च पूर्ववदन्नत्वेनैव संबन्धः । नक्षत्राणां चन्द्रमसो भोग्यत्वमसिद्धः । अपामन्नोत्पादकत्वादन्नत्वं दक्षिणाः पृथिवीवगार्हपत्यस्य । समानमन्यत्।।१।।२।। __ इति चतुर्थाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ - गार्हपत्योपदेशानन्तर्यमथशब्दार्थः ! अबादिचतुष्टयमनूद्य दक्षिणामौ चन्द्रे च विशेष दर्शयति-तत्रेति । अन्वाहार्यपचनचन्द्रमसोस्तादात्म्येनाबन्नेन नक्षत्राणां च ताभ्यां भोजत्वेन संबन्ध इति वक्तुं पुनर्वचनमित्याह- स एवेति । कथं पुनरम्वाहार्यपचनचन्द्रमास्तादात्म्यं तत्राऽऽह–अन्नसंबन्धादिति । प्रसिद्धं हि दर्शपूर्णमासयोरन्वाहार्यपचने हविःश्रपणम् । ते चन्द्रं प्राप्या भवतीत्यादौ चन्द्रमसि पसिद्धोऽनसंबन्धः । तस्मात्तयोस्तादात्म्यमित्यर्थः । तयोरेकरवे हेत्वन्तरमाह-ज्योतिष्ट्रवति । तत्रैव हेत्वन्तरमाहदक्षिणेति । अन्वाहार्यपचनौ हि दक्षिणाग्निरुच्यते । चन्द्रमाश्च दक्षिणेन पथा प्राप्यमाणो दक्षिणस्यां दिशि भवतीति गम्यते । उत्तरदिगधिष्ठातुरपि तस्य तत्संबन्धानिवारणासधुक्तं १ क. ग. द. "वं प दु । २ प. च, ग्यत्वेन ।