पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२३० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[४ चतुर्थाध्याये-- तयोरेक्यमित्यर्थः । अपां नक्षत्राणां च चन्द्रवदन्वाहार्यपचनेन तादात्म्यमाशङ्कयाऽऽहअपामिति ।, पूर्ववत्पृथिव्यन्नयोस्तयोर्गार्हपत्यादित्याभ्यामन्नवेन संबन्धवदिति यावत् । संबन्धोऽन्याहार्यपचनचन्द्रमोभ्यामिति शेषः । कथं नक्षत्राणामन्नत्वं तत्राऽऽह-नक्षत्राणामिति । कथं पुनरपामन्नत्वं तदाह-अपामिति । दक्षिणाग्नेर्दक्षिणाग्निं प्रतीति यावत् । पृथिव्या गार्हपत्याग्निं प्रत्यन्नत्ववदित्युदाहरणार्थः । स य एतमेवं विद्वानित्याद्यन्यदि. युक्तम् ॥ १ ॥ २॥ इति चतुर्थाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ ... ( अथ चतुर्थाध्यायस्य त्रयोदशः खण्डः।) M शत चतुर्थाध्याय - अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्वियुदिति य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥ स य एतमेवं विद्वानुपास्तेऽपहते पापकत्यां लोकी भवति सर्वमायुरोति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिश्च लोकेऽमुमिश्च य एतमेवं विद्वानुपास्ते ॥ २॥ इति चतुर्थाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ - - - अथ हैनमाहवनीयोऽनुशशासै प्राण आकाशो द्यौविद्युदिति ममाप्येताश्चतस्र. स्तनवः । य एष विद्युति पुरुषो दृश्यते सोऽहमस्मीत्यादि पूर्ववत्सामान्यात् । दिवा (वा) काशयोस्त्वाश्रयत्वाद्विद्युदाहवनीययो ग्यत्वेनैव संवन्धः। समानमन्यत् ।। १ ॥ २ ॥ - इति चतुर्थाध्यायस्य त्रयोदशः : खण्डः ॥ १३ ॥ गार्हपत्यस्य दक्षिणाग्नेश्वोपासनानन्तर्यमथशब्दार्थः । तत्रावान्तरभेदं दर्शयति--य एप, इति । सोऽहमम्मीत्याद्यन्यत्समानमिति संबन्धः । यथा पूर्व ज्योतिष्ट्वाविशेषागार्हपत्यादित्ययोरन्याहार्यपचनचन्द्रमसोश्च साम्यमुक्तं तथा ज्योतिष्ट्वसामान्याद्वि १ ख. २. यो । २ क. साम्पादि।"