पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

चतुर्दशः खण्डः १४ ] छान्दोग्योपनिषत ।। २३१ द्युदाहवनीययोस्तादात्म्यमेष्टव्यमित्याह-पर्ववदिति । कथं तह ताभ्यां दिवः (या)का. शयोः संबन्धस्तत्राऽऽह-दिवा (दवा)काशयोस्त्विति । आहवनीयस्य फैलत्यादिवो विषयत्वं तत्र होमादिद्वारा - निष्पन्नापूर्वस्य द्युलोकफलस्त्राभ्युपगमाद्विद्युतस्वाकाशाश्रयत्वं प्रसिद्धमतो विद्युदाहवनीययो ग्यत्वेनैव दिवा (वा)काशयोः संबन्ध इत्यर्थः । स य एतमेवमित्याद्यन्यदित्युक्तम् ॥ १ ॥ २॥ . इति चतुर्थाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ (अथ चतुर्थाध्यायस्य चतुर्दशः खण्डः।) ते होचुरुपकोसलैषा सौम्य तेऽस्मद्विद्याऽऽमविद्या चाऽऽचार्यस्तु ते गतिं वक्तेत्याजगाम ... हास्याऽऽचार्यस्तमाचार्योऽयुवादोपकोसल ३ इति ॥१॥ ते पुनः संभूयोचुहोंपकोसलेषा सौम्य ते तवास्मद्विद्याऽग्निविद्येत्यर्थः । आत्मविद्या पूर्वोक्ता प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मति च । आचार्यस्तु ते गति वक्ता विद्याफलप्राप्तय इत्युक्त्वोपरेमुरग्नयः । आजगाम हास्याऽऽचार्यः कालेन । तं च शिष्यमाचार्योऽभ्यवादोपकोसल ३ इति ॥१ - अग्नीनां मिथो विसंवादं व्यावर्तयति-ते पनरिति । तथाऽप्यात्मविद्या श्रोतव्येत्याशङ्कयाऽऽह-आत्मविद्येति । कथमाचार्योपदेशमन्तरेण भगवदुपदेशवशादेव मे विद्या फलवत्याचार्या व विद्या विदिता साधिष्टमित्यादि हि प्रागुक्तमत आह-आचार्यस्त्विति ॥१॥.. ..... .... ......" भगव इति ह प्रतिशश्राव ब्रह्मविद इव मोम्य ते मुखं भाति को नु त्वाऽनुशशासेति को नु _ माऽनुशिष्याभो इतीहापेव निहनुत इमे नून मीशा अन्यादृशा इतीहानीनायूदे कि न. सोम्प किल तेऽवोचन्निति ॥ २॥ ...... .. १ ख. ग छ. ट. ण. कपाल । त्र. कपाकत्वा । २ ख. काशले ३ स्व. अ. सौम्य। ४ ख. घ. कोशल । ५ ण. कोशलै । ६ ख. घ. अ. सौम्य । ७ ण. कोशल। द क, ग. र. र्यादेव। ९ख. अ. सोप्य । १२ ख.. साम्य । .. " .