पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२३४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ४ चतुर्थाध्यायेक्षिाणे द्रष्टत्यत्र बृहदारण्यकश्रति प्रमाणयति-चक्षष इति । आचार्येणापूर्वविद्योपदेशाटनीनामुक्तिमिथ्या मातेति शकते-नन्विति । अग्निवचनस्य गत्यन्तरमाह -- भविष्यदिति । नामानामुक्ति मूषा नापि तेषां भविष्यद्विषयाज्ञानमिति दूषयति--नैप दोष इति । यसु खगुणकमाकाशमुपास्यमाग्निभिरुपदिष्टं तस्यैव कारणब्रह्मणो द्रष्टरूपस्याक्षिणि दृश्यत इत्यनुवादो गतिव्याख्यानाय ऽ:चार्येण क्रियते तन्नास्ति दोषद्वयमित्यर्थः । अक्षिणि दृश्यत इति प्रयोगादाचार्यण च्छायामा विवक्षित इत्यार कयाऽऽह--एष इति । इतश्च नायं पुरुषछायात्मत्यनन्तरवाक्यमवतार्य व्याकरोति--एतदित्यादिना । इतिशब्दो यथो. क्त गुणरुपास्यः पुरुषो न च्छायात्मा भवितुम्हतीत्यर्थः । असङ्गत्व च्च न यं छायानेत्याहकिचेति । माहात्म्यं स्थानद्वारणीच्यत इति शेषः । किम्तावता पुषस्माऽऽतमित्योश.. तयाऽऽह--स्थानस्यापीति ॥ १ ॥ एत५ संयद्दाम इत्याचक्षत एत५ हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद ॥ २॥ एतं यथोक्तं पुरुष संयद्वाम इत्याचक्षते । कस्मात् । यस्मादैतं सर्वाणि वामानि वननीयानि संभजनीयानि शोभनान्यभिसंयन्त्यसिंगच्छन्ती. त्यतः संयद्वामः । तथैवविदमेनं सर्वाणि वामान्यभिसंयन्ति य एवं वेद ।। २ ।। तस्वोपास्यत्वार्थ गुणान्तरं दर्शयति- एतमिति । पुरुषस्य संयद्वामत्वं ब्रह्मविदुक्त्या सिद्धमपि नान्वर्थमन्तरेण व्यक्ती भवतीति शक्कते-कस्मादिति । अव वार्थोपन्यासेन परिहरति--यस्मादिति । गुगोपास्तिफलमाह-तयति । उपास्यगुणानुपारेणेत्यर्थः । एवंचिदं संयद्वामगुणविशिष्टपुरुषोऽस्मीति वेदितारमित्येतत् ॥ २ ॥ एष उ एव वामनीरेष हि सर्वाणि वामानि नयति सर्वाणि वामानि नयति य एवं वेद ॥ ३ ॥ एष उ एव वामनीर्यस्मादेष हि सर्वाणि वामानि पुण्यकर्मफलानि पुण्यानुरूपं प्राणिभ्यो नयति प्रापयति वहति चाऽऽत्मधर्मत्वेन । विदषः फलं-- सर्वाणि वामानि नयति य एवं वेद ॥ ३ ॥ १ ग. ट. °णमा । २ क. ग. ट. त्याह । 5 व. ठ. 'भिग । ४ ख. अ. नान्ययार्थी, अ. मावयवार्थ । ५ख, उ. प्र. ण, शिष्टः पु। 1- 1. 0