पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

पञ्चदशः खण्डः १५ ] : छान्दोग्योपनिषत् । गुणान्तरमुपास्यत्वाय दर्शयति-एप इति । तद्वयु पादयति-एष इति ॥ ३॥ एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति य एवं वेद ॥ ४ ॥ एष उ एव भामनीरेष हि यस्मात्सर्वेषु लोकेष्वादित्यचन्द्राग्न्यादिरूपाति दीप्यते । " तस्य भासा सर्वमिदं विभाति " इति श्रुतेरतो भामानि नयतीति भामनीः । य एवं वेदासावपि सर्वेषु लोकेषु भाति ।। ४ ॥ गुणान्तरं ध्यानालोक्त्या व्युत्पादयति-एष इत्यादिना । आदित्यादिरूपेणास्यैव दीप्यमानत्वे श्रुत्यन्तरमनुकलयति-तस्येति । गुणोपास्तिफलमाह-य एवमिति ॥४॥ अथ यदु चैवास्मिञ्चव्यं कुर्वन्ति यदि च नाचिकमेवाभिसंभवन्त्यषिोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङेति मासाश्स्तान्मासेभ्यः संवसर५ संवत्सर दादित्यमादित्याञ्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमा- .. वर्त नाऽऽवर्तन्ते नाऽऽवर्तन्ते ॥ ५ ॥ इति तुर्थाध्यायस्य पञ्चदशः खण्डः॥१५॥ --- । अथेदानी यथोक्तब्रह्मविदो गतिरुच्यते । यद्यधु चैवास्मिन्नेवविदि शव्यं शवकर्म मृते कुर्वन्ति यदि च न कुर्वन्ति ऋत्विजः सर्वथाऽप्येववित्तेन शवकर्म. णाऽकृतेनापि प्रतिबद्धो न ब्रह्म प्राप्नोति न च कृतेन शवकर्मणाऽस्य कश्चना. भ्यधिको लोकः । " न कर्मणा वर्धते नो कनीयान् ॥ इति श्रुत्यन्तरात् । शवकर्मण्यनादरं दर्शयन्विद्या स्तौति न पुनः शवयमविदो न कर्तव्यमिति । अक्रियमाणे हि शवकर्मणि कर्मणां फलारम्भे मतिबन्धः कश्चिदनुमीयतेऽन्यत्र । यत इह विद्याफलारम्भयाले शवकर्म स्यावा न वेति विद्यावतोऽतिबन्धेन फलारम्म दर्शयति । ये सुखाकासमक्षिस्थं संयद्वामो वामनी मनीरित्येवंगुण १ट, ठ."एतान्त्र'।