पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२३८ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता-[४चतुर्थाध्याय-- -निपाती। वायुप्ररिष्ठो हि यशः प्रसिद्धः श्रतिषु। “स्वाहा वातेधाः।" "अयं वै यज्ञो योऽयं पवते" इत्यादिश्रुतिभ्यः। वात एव हि चलनात्मकत्वारिक्रयास. मवायी । " वात एव यइ.स्याऽऽरम्भको वातः प्रतिष्ठा” इति च श्रवणात् । एष इ यन्गच्छंश्चरन्निदं सर्व जगत्पुनाति पावयति शोधयति । न ह्यचलतः शुद्धिरस्ति । दोषनिरसनं चलतो हि दृष्टं न स्थिरस्य । यद्यस्माच्च यन्नेष इदं सर्व पुनाति तस्मादेष एव यज्ञो यत्पुनातीति । तस्यास्यैवं विशिष्टस्य यज्ञस्य वाक्च मन्त्रोच्चारणे व्यापृता । मनश्च यथाभूतार्थज्ञाने व्यापृतम् । ते एते वाङ्मनसे वर्तनी मार्गों याभ्यां यज्ञस्तायमानः प्रवर्तते ते वर्तनी । “प्राणापानपरिचलनवत्या हि वाचश्चित्तस्य चोत्तरोतरक्रमो पद्यशः" इति हि श्रुत्यन्तरम् । अतो वामनसाभ्यां यज्ञो वर्तत इति वाङ्मनसे वर्तनी उच्यते यज्ञस्य ॥ १ ॥ पूर्वोत्तरग्रन्थयोरसंगतिमाशङ्कय प्रासङ्गिकी संगतिमाह-रहस्यप्रकरण इति । रहस्यमुप.सनं तत्प्रकरणे विदुषां फलप्राप्तये मार्गोपदेशप्रसङ्गेन यज्ञस्य समाप्तिगमनायानन्तरमन्येन मार्गोपदेशादस्ति संगतिरित्यर्थः । किंच पूर्वोत्तरग्रन्थयोरारणपकत्वेन समानत्वादपि संगतिरस्तीत्याह-आरण्यकत्वेति । किंचाग्निविषया विद्या प्रकृता यज्ञेच सिद्धेऽग्निसंबन्धे यदि किमपि क्षतमुत्पद्यते तदा प्रायश्चित्तार्था व्याहृतयो विधातव्या इत्यनन्तरग्रन्थप्रवृत्तिरिति संगत्यन्तरमाह--यज्ञ इति । प्रकृतायामुपासनायां मौनमङ्गी क्रियते वाग्व्यापारे विक्षिप्तचित्ततया ध्यानानुष्ठानासिद्धेः । ऋस्विग्विशेषस्य च प्रायश्चित्ताभिज्ञस्य मौनमत्र विधीयते तेनास्ति मिथः संगतिरित्याह-तदभिज्ञस्यति । यज्ञस्य देवतोद्देशेन द्रव्यत्यागात्मकत्वाक्रियायाश्च क्षणभङ्गिन्या गतिमत्त्वायोगान्मार्गोपदेशासंभवात्कथमाद्या संगतिरित्याशङ्कय गतिमत्त्वं संपादयितुं यज्ञस्य वायुरूपत्वमाहएष इत्यादिना । यज्ञो काय्याश्रयो वाय्यात्मक इति श्रौती प्रसिद्धिस्तामेय प्रकटति-वायुप्रतिष्ठ, इति । श्रुतीरुाहरति-स्वाहेति । स्वाहाकारमुच्चार्य वाते वायौ धीयते क्षिप्यत इति वातवा यज्ञः । श्रुत्यन्तरमाह-अयमिति । आदिशब्देन वाताद्यज्ञः प्रयुज्यतामिति श्रुतिर्गृह्यते । आदर्शितश्रुतीनामर्थं संगृह्णातिवात इति । यो यज्ञ: क्रियास-वायी तत्समुदायात्मकः स वायुरेव । द्वयोश्चलनात्म ११. ङ. ढ. ण. इत्येवनादि । २ ख. इ. च. अ. ड. ण. "नं च च । ३ स.अ. जगत्पुना । ४ प. ङ. च. ठ. जो यः पुना । ५ (५. घ. ङ. अ. ट. . ढ. ण. "भ्यां वर्तनीम्यां य । ६ ख. अ. ठ. ण. °त्तरं काय. ङ. च. ढ. त्तरिक । ७ ड. ढ. यज्ञः । ८ ठ. ण. भ्यां वर्तनीभ्यां य । ९ क. ख.: ग. च. अ. ट. ज्ञो - वर्तनीभ्यां च । १० फ. ग. ट. वा।