पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

षोडशः खण्डः १६] छान्दोग्योपनिषत् ।। २३९ कावाविशेषात् । तस्माद्वायुप्रतिष्ठस्तदात्मको यज्ञ इत्यर्थः । वायुप्रतिष्ठो यज्ञ इत्यत्र श्रुय. न्तरमाह-वात एनोति । पवनत्वश्रु याऽपि वायुयज्ञयोरेकत्वमाह-एष ह यन्निति । विनाऽपि वायुं शुद्धिः सिध्यतीत्याशङ्कयाऽऽह-न हीति । अचलतो विहितक्रियामननुतिष्ठत इति यावत् । शुद्धिर्नाम दोषनिरासः । स च निषिद्धं प्रत्यक्तुं यतमानस्य सिध्यति । न तु निषिद्धक्रियात्यागोदासीनस्य दोषनिरासास्मिका शुद्धिः संभवति । चलनं च वायुः । तस्माद्वायुरेव चलनद्वारा सर्व जगत्पुनातीत्याह-दोषेति । वायोरस्तु पावनत्वं प्रकृते किमायातमित्याशङ्कयाऽऽह-यद्यस्मादिति ! वाय्यात्मना गतिविशिष्ठस्य यज्ञस्य मार्गइयमुपदिशति-तस्यति । एवं विशिष्टस्य पावनस्य वायुरूपस्येति यावत् । यज्ञस्यो. क्तमार्गद्वयवैशिष्टय सोपस्कारमैतरेयवाक्यमुदाहरति-प्राणेति । प्राणापानाभ्यामुच्छसनिश्वासाभ्यां परिचलनं विद्यते यस्यास्तस्या वाचश्चित्तस्य च पुर्यापरभावक्रमेण यज्ञः संपा. द्यते । मनसा हिं ध्यायन्याचमभिव्याहरन्पूर्वपरीभावेन यज्ञं संपादयतीत्यर्थः । यज्ञस्य मार्ग यविशिष्टत्वमुपसंहरति-अत इति ॥ १ ॥ तयोरन्यतरां मनसा सस्करोति ब्रह्मा वाचा होताऽध्वर्युरुद्गाताऽन्यतरा५ स यत्रोपाहते प्रातग्नुवाके पुरा परिधानीयाया ब्रह्मा व्यववदति ॥ २॥ अन्यतरामेव वर्तनी ससरोति हीयतेऽन्यतरा स यथै कपावजन्थो वैकेन चक्रेण वर्तमानो रिष्यत्येवमस्य यज्ञो रिष्यात यज्ञ रिष्यन्तं यजमानोऽनुरिष्यति स इष्ट्वा पापी यान्भवति ॥ ३ ॥ तयोर्वर्तन्योरन्यतरां वर्तनी मनसा विवेकज्ञानवता संस्करोति ब्रह्मविग्याचा वर्तन्या होताऽध्वर्युरुद्गातेत्येते त्रयोऽप्यत्विजोऽन्यतरां वाग्लक्षणां वर्तनी वाचैव संस्कुर्वन्ति । तत्रैवं सति वाङ्मनसे वर्तनी संस्कार्ये यज्ञे । अथ स ब्रह्मा यत्र यस्मिन्काल उपाकृते प्रारब्धे प्रातरनुवाके शस्त्रे पुरा पूर्व परिधानीयाया ऋचो ब्रौतस्मिन्नन्तरे काले व्यववदति मौनं परित्यजति यदि तदाऽन्यतरामेव १ के. छ. ज. त. थ. तनिस । २ अ. ण कविज्ञा' ।