पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२४० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमैता- [४चतुर्थीध्यायेबार्वर्तनी संस्करोति । ब्रह्मणाऽसंस्क्रियमाणा मनोवर्तनी हीयते विनश्यति च्छिद्री भवत्यन्यतरा । स यज्ञो वाग्वनियवान्यतरया वर्तितुमशक्नुवरिष्यति । कथमिवेत्याह । स यथैकपात्पुरुषो वजनाच्छन्नध्वानं रिष्यति, रथो वैकेन चक्रेण वर्तमानो गच्छरिष्यत्येवमस्य यजमानस्य कुब्रह्मणा यज्ञो रिष्यति विनश्यति । यज्ञं रिष्यन्तं यजमानोऽनुरिष्यति । यज्ञप्राणो हि यजमानः । अतो युक्तो यबरेषे रेषस्तस्य । स तं यज्ञमिष्ट्वा तादृशं पापीयान्पापतरो भवति ॥२॥३॥ तयोरन्योन्यमुपकार्योपकारकभावं दर्शयति-तयोरिति । वाचा सम्यक्प्रयुक्तयेति शेषः । संस्कृतायां च वाग्वतन्यां तयैव यज्ञो निष्पन्नो भवतीत्याह-वाचैवेति । किं तर्हि मनोवतन्या संस्क्रियत इत्याशङ्कयाऽऽह-तत्रेति । यज्ञस्य द्वाभ्यां मार्गाभ्यां नीयमानत्वे पूर्वोत्तरीत्या स्थिते सतीति यावत् । मनोवतन्याः संस्काराभाचे प्रत्यवायं दर्शयति---- अथेत्यादिना । मनोवर्तनी ब्रह्मणा वाम्वर्तनी च होतप्रभातभिः संस्कार्यति व्यवस्थान्तरमित्यर्थः । स ब्रह्मेत्यन्वयं सूचयति-ब्रह्मेति । पुनरुक्तिस्तस्य क्रियापदेन संबन्धद्योत. नार्था । एतस्मिन्नन्तरे काले प्रातरनुवाकशस्त्रमारभ्य तत्परिसमाप्तेरन्तरावस्थायामित्यर्थः । वाचो होत्रादिभिः संस्कार्थवभस्तु, मनसश्च ब्रह्मसंस्कार्य मा भूदेतावता यज्ञस्य किमायातमित्याशङ्कयाह-स यज्ञ इति । यज्ञभ्रंशमेवाऽऽकाङ्क्षाद्वारा व्युत्पादयति-कथमित्यादिना | नाशेऽपि यज्ञस्य यजमानस्य किमायामित्याशङ्कयाऽऽह-यज्ञप्राणो हीति । याग्वर्तनीसंस्काराभावेऽपि तुल्यो दोषः ।। २ ॥ ३ ॥ अथ यत्रोपाळते प्रातग्नुवाके न पुरा परिधानीवाया ब्रह्मा व्ययवदत्युझे एव वर्तनी स५स्कुर्वन्ति न हीयतेऽन्यतरा ॥ ४ ॥ स यथोभयपावजन्रथो वोभायां चक्राश्यां वर्तमानः प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञ प्रतितिष्ठन्तं यजमानोऽनुप्रतितिष्ठति स इट्वा श्रेयान्भवति ॥ ५॥ इति चतुर्थाध्यायस्य पोडशः खण्डः ॥ १६ ॥ १ ख. ह्मणो य । घ. ङ. च. ढ. 'ह्मणविम्वतो य° । ठ. ह्मणविजा य । २ ग.ट. 'तमत आह।