पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

सतं दशः खण्ड: १७] छान्दोग्योपनिषत् । २४१ अथ पुनयंत्र ब्रह्मा विद्वान्मौनं परिगृह्य वाग्विसर्गमकुर्वन्वर्तते यावत्परित धानीयाया न व्यवनदति तथैव सर्वत्विज उभे एव वर्तनी संस्कुर्वन्ति न होयतेऽन्यतराऽपि । किमित्याह । पूर्वोक्तविपरीतौ दृष्टान्तौ । एवमस्य यजमानस्य यज्ञः स्ववर्तनीभ्यां वर्तमानः प्रतितिष्ठति स्वेनाऽऽत्मनाऽविनश्यन्वर्तत इत्यर्थः । यज्ञं प्रतितिष्ठन्तं यजमानोऽनुप्रतितिष्ठति स यजमान एवं मौनविज्ञानवद्ब्रह्मोपेत यज्ञमिष्ट्वा श्रेयान्भवति श्रेष्ठो भवतीत्यर्थः ॥ ४ ॥ ५ ॥ इति चतुर्थाध्यायस्य षोडशः खण्डः ॥ १६ ॥ भौनगुणं दर्शयति---अथ पुनरिति । तथैव सम्यमनुष्ठातार इति यावत् । तथा सति ब्रह्मा चान्ये चविजो द्वे वर्तन्यौ संस्कुर्वन्त्येवेत्याह--नेति । वर्तनीद्वयसंस्कारे कि स्यादित्यक्षावामाह--एवमिति ॥ ४ ॥ ५ ॥ इति चतुर्थाध्यायस्य षोडशः खण्डः ॥ १६ ॥ (अथ चतुर्थाध्यायस्य सप्तदशः खण्डः ।) अत्र ब्रह्मणो मौनं विहितं तदेष ब्रह्मत्वकर्मणि चान्यस्मिश्च होत्रादिकमरेचे व्याहृतिहोमः प्रायश्चित्तमिति तदर्थ व्याहतयो विधातव्या इत्याहWiri प्रजापतिर्लोकानायतपत्तेषां तप्यमानानासान्या वृहदग्निं पृथिव्या वायुमन्तरिक्षादादित्यं दिवः ॥१॥ प्रजापतिर्लोकानभ्यत्तपल्लोकानुद्दिश्य तत्र सारजिघृक्षया ध्यानलक्षणं तपचार । तेषां तप्यमानानां लोकानां रसान्साररूपान्प्राहदुद्धतवाञ्जग्राहेत्यर्थः । कान् । अग्नेि रसं पृथिव्याः । वायुमन्तरिक्षात् । आदित्यं दिवः ।। १ ।। नित्यानुष्टानमुक्त्वा नैमित्तिकपायश्चित्तविधानार्थमुपक्रमते-अत्रेति । तदेषे ब्रह्मणो मौनशे सतीति यावत् । रसान्विशेषतो ज्ञातुं पृच्छति-कानिति ॥ १ ॥ १ क. च. प. व ते स । २. विजोडत उ° । ३ अ.. जस्तए । ४ ख. . . न्तिीत्येचे । ५ ख, अ.ते झते। छ. ग. अन इति । ६ ख. म. न. र. ण. हितमय त । ७ ख. अ. ऊ. ण. श्चकार । ३१