पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२४४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ ४ चतुर्थाध्याये-- भेषजकतो ह वा एष यज्ञो यत्रैवंविद्वह्मा भवति ॥ ८॥ तद्यथा लवणेन सुवर्ण संदध्यात्। क्षारेण टणादिना खरे मृदुत्त्वकरं हि तत् । सुवर्णेन रजतमशक्यसंधानं संदध्यात् । रजतेन तथा त्रपु त्रपुणा सीसं सीसेन लोहं लोहेन दारु दारु चर्मणा चर्मबन्धनेन । एवमेपां लोकानामासां देवताना' मस्यास्त्रय्या विद्याया वीर्येण रसाख्येनौजसा यज्ञस्य विरिष्टं संदधाति । भेषजकृतो ह वा एप यज्ञः । रोगात इव पैमाश्चिकित्सकेन सुशिक्षितेनैप यज्ञो भवति । कोऽसौ । यत्र यस्मिन्यज्ञ एवंविद्यथोक्तव्याहृतिहोमप्रायश्चित्तविह्मविग्भवति स यज्ञ इत्यर्थः ॥ ७ ॥ ८ ॥ वस्तुस्वभाववैचित्र्यादुत्पन्नस्यापि क्षतस्य केनचित्संधानं भवतीत्यत्र दृष्टान्तामाहतद्यथेत्यादिना । तत्र साधनमिति तदर्शयति-क्षारणेति । खरे सुवणे वह्निसंयुक्त द्रवीभूते क्षारप्रक्षपेण टङ्कणादिना मदुकरणं मिथोऽवयवसंयोजनं संधानं प्रसिद्धमित्यर्थः । रजत सुवर्णेन स्वरसतस्तावदशक्यसंध नं तथाऽपि वह्निसंयोगपूर्वकं पूर्वरदेव तत्रापि प्रसिद्धं संधानमित्याह-सुवर्णेनेति रजतेनेत्यानावपि यथोक्तं द्रष्टव्यम् । संदधाति ब्रह्मेति शेषः । भेषजेनेव कृतः संस्कृत इति यावत् । तदेव स्फुटयति-रोगाते इति । भवति संस्कृत इति शेषः ॥ ७ ॥ ८ ॥ एष ह वा उदक्प्रवणो यज्ञो यत्रैवविद्ब्रह्मा भवत्येवविद ह वा एषा ब्रह्माणमनुगाथा यतो यत आव तते तत्तद्गच्छति ॥ ९॥ किंष ह वा उदक्प्रवण उद निम्नो दक्षिणोच्छायो यज्ञो भवति । उत्तरमार्गप्रतिपत्तिहेतुारीत्यर्थः । यत्रैवविद्ब्रह्मा भवत्येवंविदं ह वै ब्रह्माणमृत्विज प्रत्येषाऽनुगाथा ब्रह्मणः स्तुतिपरा। यतो यद+आवर्तते कर्म प्रदेशात्विजां यज्ञः क्षतीभवंस्तत्तद्यज्ञस्य क्षतरूपं प्रतिसंदधत्मायश्चित्तेन गच्छति परिपालयतीत्येतत् ॥ ९॥ - इतश्चैवंविदा ब्रह्मणा भवितव्यमित्याह--किंचेति । गाथाशब्दो गायत्र्यादिच्छन्दोव्यतिरिक्तच्छन्दोविषयः । यतो यतः प्रदेशात्कर्माऽऽवर्तत इत्युक्तं विवृणोति + आवर्तन मृत्रि कृतं क्षतम् । १५. . ठ. द. कणकादि । २ क. ख. ग. च. न. ट. खरेषु । ३ ण. पुरुषश्चि । ४ ख. म. घ. ङ. च. अ. ट, ठ. ड. ण. णोच्छ्यो ।