पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

सप्तदशः खण्डः १७] छान्दोग्योपनिषत् । २४५ ऋत्विजामिति। यत्र यत्र प्रदेशे यज्ञस्य क्षतिरध्वर्युप्रभृतीनामभवत्तत्र तत्र यज्ञस्य क्षतरूपं प्रायश्चित्तेन पतिसंदधानो ब्रह्मा कर्तृन्परिपालयतीति संबन्धः ॥९॥ मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाऽभिरक्षत्येवंविर्द्ध वै ब्रह्मा यज्ञं यजमान सर्वाश्चर्विजोऽभिरक्षति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवविदम् ॥ १० ॥ इति चतुर्थाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ इति च्छान्दोग्योपनिषदि चतुर्थोऽध्यायः समाप्तः ॥ ४॥ मानवो ब्रह्मा मौनाचरणान्मननाद्वा ज्ञानवत्त्वात्ततो ब्रह्मैवैकत्विक्कुरून्कर्तृन् । योद्धनारूढानवा वडवा यथाऽभिरक्षत्येवविद्धं वै ब्रह्मा यज्ञ यजमान साश्वविजोऽभिरक्षाति तत्कृतदोषापनयनात । यत एवविशिष्टो ब्रह्मा विद्वांस्तस्मादेवंविदमेव यथोक्तव्याहृत्यादिविदं ब्रह्माणं कुर्वीत नानेवंविदं कदाचनेति । द्विरभ्यासोऽध्यायपरिसमाप्त्यर्थः ।। १० ॥ इति चतुर्थाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ इति श्रीमद्गोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजका. चार्यस्य श्रीमच्छ करभगवतः कृतौ छान्दोग्योपनिषद्धि वरणे चतुर्थोऽध्यायः समाप्तः ।।४॥ ऋविजि ब्रह्मणि मानवशब्दप्रवृत्तौ निमित्तद्वयमाह-मौनेति । ज्ञानातिशयस्तच्छ. ब्दार्थः । कर्तृनभिरक्षतीति संबन्धः । उक्तमर्थं दृष्टान्तेन प्रकटयति-योद्धृनित्या: दिना । प्रकरणार्थमुपसंहरति-एवमिति ॥ १० ॥ - इति चतुर्थाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्द_ज्ञानकृतायां छान्दोग्योपनिषद्भाष्यटीकायाँ चतुर्थोऽध्यायः समाप्तः ॥ ४ ॥ १ छ. शक"। २ ख. ग. ङ. ज. झ. . ट. त. थ. "द्ध ह वैः । ३ ग. घ. ङ. च. इ.ठ.इ.ड. वातो।४ख.घ. डट.ड, क. यस