पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२४६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[५ पञ्चमाध्याये-- (अथ पञ्चमाध्यायस्य प्रथमः खण्ड सगुणब्रह्मविद्याया उत्तरा गतिरुक्ता । अथेदानी पञ्चमेऽध्याये पञ्चाग्निविदो ग्रहस्थस्योवर.सां च श्रद्धालूनां विद्यान्तरशीलिनां तामेव गतिमनूद्यान्या दक्षिणा दिवसबन्धिनी केवलकर्मिणां धूमादिलक्षणा पुनरावृत्तिरूपा तृतीया च ततः कष्टतरा संसारगतिराग्यहेतोर्वक्तव्येत्यारभ्यते । प्राणः श्रेष्ठो वागा. दिभ्यः प्राणो वाव संवर्ग इत्यादि च बहुशोऽतीते ग्रन्थे प्राणग्रहणं कृतं स कथं श्रेष्ठो वागादिषु सर्वैः संहत्यकारित्वाविशेषे कथं च तस्योपासनमिति तस्य श्रेष्ठत्वादिगुणविधित्सयेदमनन्तरमारभ्यते ॐ । यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै । श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ १ ॥ यो ह वै कश्चिज्ज्येष्ठं च प्रथमं वयसा श्रेष्ठं च गुणैरभ्यधिक वेद स ज्येष्ठश्च ह चै श्रेष्ठश्च भवति । फलेन पुरुषं प्रलोभ्याभिमुखीकृत्याऽऽह--प्राणो वाव ज्येष्ठश्च वयसा वागादिभ्यः। गर्भस्थे हि पुरुषे प्राणस्य वृत्तिर्वागादिभ्यः पूर्व लब्धात्मिका भवति. यया गर्भो विवर्धते चक्षुरादिस्थानावयवनिष्पत्तौ सत्यां पश्चाद्वागादीनां वृत्तिलाभ इति प्राणो ज्येष्ठो वयसा भवति । श्रेष्ठत्वं तु पतिपादयिष्यति सुहय इत्यादिनिदर्शनेन । अतः प्राण एव ज्येष्ठश्च श्रेष्ठश्वास्मिन्का र्यकरणसंघाते ॥१॥ वृत्तमनद्य वर्तिष्यमाणाध्यायस्य संगति संगिरते--सगणेति । विद्यान्तरं पञ्चाग्निविद्यातिरिक्ता सगुणविद्या । तच्छीलिनां तन्निष्ठानामिति यावत् । तामवे गतिमचिरादिलक्षणामित्यर्थः । ततो गतिद्वयात्तृतीया च विद्याकर्भरहितानामिति शेषः । अथ क्रमेण मुक्तिसंभवादुत्तरा गतिरुच्यतां किमिति दक्षिणा तृतीया च । संसाररूपा गतिर. तिनिकृष्टा व्यपदिश्यते तत्राऽऽह--कष्टतरोति । सगुणब्रह्मविद्यावतामार्चरायां गति. मुक्त्वा समुच्चितानामसमुचिताननं कर्मणां संसारगतिप्रभेदरूपं फलं वक्तमयमारम्भ इत्यर्थः । कर्मविधिश्च धनसंपत्तौ सत्यां भवति । तसंपत्तिश्च ब्राह्मणस्य श्रेष्ठये सत्येत्र १क. ङ. 'क्षिणदि । २ ङ. ड. द. °णो ब्रह्म प्राण आकाश इ । ३ ग. घ. च. ट. ठ.भः प्राणो ब्रह्म प्राण आकाश इ । ४ ग. घ. ड, च. ठ. ड. ढ. दि ब° । ५ ग. ट. "शेषात्क। ६ ठ. वे दोपास्ते स । क. ख. ड. उ. द. र्यकार ।