पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

प्रथमः खण्डः १] म छान्दोग्योपनिषत् । २४७ संभवतीति श्रेष्ठयांसेद्धये प्राणोपासनं पूर्वत्रानुक्तं वक्तव्यमित्यनन्तरग्रन्थसंगतिं वदन्प्रसङ्गं करोति--प्राणः श्रेष्ठ इत्यादिना । प्राणो ब्रह्मेत्यादिवाक्यमादिशब्दार्थः । उदाहृतानुदाहृत श्रुयन्तरसमुच्चयार्थश्चकारः । प्राणस्य वागादिभ्यः श्रेष्ठयमुक्तमाक्षिपति-स कथामिति । सर्वैर्व गादिभिः संहत्य प्राणस्य कार्यकरत्वे संप्रतिपन्ने स एवं कथं श्रेष्ठो निर्धार्यते तेषामन्यतमस्यैव श्रेष्ठ्यं किं न स्यादित्यर्थः । तस्यैवोपास्यतया श्रेष्ठयमाशङ्कय वागादीनामन्यतमस्योपास्यत्वमपास्य प्राणस्यैव नोपास्यवं हेत्वभावादित्याक्षेपान्तरमाहकथं चेति । प्राणस्य श्रेष्ठत्वं ज्येष्ठत्वमित्या दगुणविधानार्थमेव तावत्प्रथममारभ्यतेयो ह वै ज्येष्ठं चेति । आद्यं चौद्यं परिहरति--प्रथममिति । प्राणस्यैवोपासनं न वागादीनामित्येतदनन्तरमारभ्यतेऽथ ह प्राण उच्चक्रमिषन्नित्यादिनेति द्वितीयं चोद्यमुद्धरति-- इदमनन्तरमिति । कोऽसौ ज्येष्ठत्वश्रेष्ठत्वगुणो वेदितव्य इत्यत आह-फलेनेति । कुतो वागादिभ्यो ज्यैष्ठयं प्राणस्य प्रतीतं सर्वे हि वागादयः सप्राणा: सहैव गर्भस्थे स्वतो वृत्तिभागिनो भवन्ति तत्राऽऽह--गर्भस्थे हीति । तत्र गर्भविवृद्धिदर्शनं प्रमाणयति-- ययेति । क.दा तर्हि व.गादीनां वृत्तिलाभस्तत्राऽऽह--चक्षुरादीति । प्राणस्य ज्यैष्ठ्यं प्रतिपादितं निगमयति-इति प्राण इति । गुणद्वयमुपास्यत्वाय दर्शितं निगमयतिअत इति ॥ १॥ यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति वाग्बाव वसिष्ठः ॥ २ ॥ यो ह वै वसिष्ठं वैसितृतममाच्छादयितृतमं वसुमत्तमं वा यो वेद स तथैव वसिष्ठो ह भवति स्वानां ज्ञातीनाम् । कस्तहि वसिष्ठ इत्याह । वाग्वाव वसिष्ठो वाग्मिनो हि पुरुषा वसन्त्यभिभवन्त्यन्यान्वसुमत्तमाश्चातो वामसिष्ठः ॥२॥ तदर्थवेनैव गुणान्तरं दर्शयति--यो ह वा इति । वसुमत्तमं धनवत्वादन्येषां "निवासकारणमित्यर्थः । तथैवेत्यु रासनानुसारेणेति यावत् | वसिष्ठो ह भवतीति वासयिती वेत्यर्थः । वाचो वसिष्ठत्वं समर्थयते--वाग्मिनो हीति । वसुमत्तमाश्च तेनान्यानिवासयन्तीति शेषः ॥ २॥ यो ह वै प्रतिष्ठां वेद प्रतिह तिष्ठत्यस्मिश्च लोकेऽमुष्मिश्च चक्षुर्वाध प्रतिष्ठा ॥ ३ ॥ - क. आयचो' | ख. छ. ञ, ण, आयं प । २ ख, छ. अ. ण. तीयचो । ३ प. ङ, ट. ड. वस्तृत । ४ क. "ता चेत्य । ५ रु. अ. °श्चक्षु ।