पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२४८ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता-५ पञ्चमाध्याये यो ह वै प्रतिष्ठां वेद स चास्मॅिल्लोकेऽमुष्मिश्च परे प्रतितिष्ठति ह । का तर्हि प्रतिष्ठेत्याह । चक्षुर्वाव प्रतिष्ठा । चक्षुषा हि पश्यन्समे च दुर्गे च प्रतितिष्ठति यस्मादतः प्रतिष्ठा. चक्षुः ॥ ३ ॥ । गुणान्तरमाध्यानायोपदिशति---यो हेति । प्रतिष्ठात्वं चक्षुषो विशदयति--चक्षुषा हीति ॥ ३ ॥ यो ह वै संपदं वेद स५ हास्मै कामाः पद्यन्ते देवाश्च मानुषाश्च श्रोत्रं वाव संपत् ॥ ४ ॥ - यो ह वै संपदं वेद तस्मा अस्मै दैवाश्च मानुषाश्च कामाः संपद्यन्ते है । का तर्हि संपदित्याह । श्रोत्रं वाव संपत् । यस्माच्छोत्रेण वेदा गह्यन्ते तदर्थविज्ञानं च ततः कर्माणि क्रियन्ते ततः कामसंपदित्येवं कामसंपद्धेतुत्वाच्छ्रोत्रं वाव संप्त् ॥ ४॥ गुणान्तरमाह-यो ह वा इति । दैवाः कामाः स्वर्गादयो वा मानुषाः पश्वादयः । श्रोत्रस्य संपत्त्वं साधयति-यस्मादिति । इत्येवं यस्मात्तस्मादिति योजना ॥ ४ ॥ यो ह वा आयतनं वेदाऽऽयतन ह स्वानां भवति मनो ह वा आयतनम् ॥ ५॥ यो ह वा आयतनं वेदाऽऽयतनं ह स्वानां भवेत्याश्रयो भवतीत्यर्थः । किं तदायतनमित्याह । मनो ह वा आयतनम् । इन्द्रियोपहृतानां विषयाणां भोक्त्रर्थानां प्रत्ययरूपाणां मन आयतनमाश्रयः । अतो मनो ह वा आयतनमित्युक्तम् ॥ ५॥ संप्रति गुणान्तरमाह--यो हेति । कथं पुनरायतनत्वं मनसः सिद्धमित्यत पाहइन्द्रियोपहतानामिति ॥ ५॥ अथ ह प्राणा अहश्रेयसि व्यूदिरेऽह श्रेयानस्म्यह५ श्रेयानस्मीति ॥ ६॥ अथ ह पाणा एवं यथोक्तगुणाः सन्तोऽहंश्रेयस्यहं श्रेयानस्म्यहं श्रेयानस्मीत्येतस्मिन्प्रयोजने व्यूदिरे नाना विरुद्धं चोदिर उक्तवन्तः ॥ ६ ॥ यथोक्ता गुणा मुख्यप्राणगामिनो न प्रत्येकं वागादिषु भवन्तीति वक्तुमाख्यायिका प्रमाणयति---अथेति ॥ ६॥ १. ड. ड. ण. चाम्मिश्च लोंके । २ च. . °वतीत्या । ३ क. ख. छ. स.. प्रण।