पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२५० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ ५५श्चमात्याये श्रोत्र होच्चकाम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकर्ते मज्जीवितुमिति यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा ध्यायन्तो मनसैवमिति प्रविवेश ह श्रोत्रम् ॥ १०॥ मनो होच्चकाम तत्संवत्सरं प्रोग्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः प्राणन्तः प्राणेन बदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रौत्रेणैवमिति प्रविवेश ह मनः ॥ १३ ॥ तथोक्तेषु पित्रा प्राणेषु सा ह वागुच्चक्रामोत्क्रान्तवती । सा चीत्क्रम्य संवसरमात्रं प्रोष्य स्वव्यापारानिवृत्ता सती पुनः पर्येत्येतरान्प्राणानुवाच कथं केन प्रकारेणाशकत शक्तवन्तो यूयं महते मां विना जीवितुं धारयितुमात्मानमिति ते होचुर्यथा कला इत्यादि । कला मूका यथा लोकेऽवदन्तो वाचा जीवन्ति । ' कथम् । प्राणन्तः प्राणेन पश्यन्तश्चक्षषा शण्वन्तः श्रोत्रेण ध्यायन्तो मनस सर्वकरणचेष्टां कुर्वन्त इत्यर्थः । एवं वयमैजीविष्मेत्यर्थः । आत्मनोऽश्रेष्ठतां प्राणेषु बुद्ध्वा प्रविवेश ह वाक्पुनः स्वव्यापार प्रवृत्ता बभूवेत्यर्थः । समान. मन्यच्चक्षुर्वोच्चक्राम श्रोत्रं होच्चक्राम मनो होच्चक्रामेत्यादि । यथा बाला अमनसोऽप्ररूढमनस इत्यर्थः ॥ ८ ॥९॥ १० ॥ ११ ॥ अन्यदित्यस्य विषयमाह-चक्षुरिति । बालानामपि बहिरन्तरिन्द्रियत्वाविशेषात्कथम मनस इति विशेषणमत आह-अप्ररूढति ॥ ८ ॥ ९॥ १० ॥ ११ ॥ अथ ह प्राण उच्चिक्रमिषन्स यथा सुहयः पड्वीशशकून्संखिदेदेवमितरान्प्राणान्समखिदत्त हातिसमेत्योचुर्भगवनेधि त्वं नः श्रेष्ठोऽसि मोकभीरिति ॥ १२॥ । १च. 'सरं संवत्सरमा। २ . ठ. शक्नुव । ३ ख. ग. ड. अ. ट. ड. "नसा ४ च. त्र. मप्यजी' । ५ च, 'पारप। ६ च. ठ. रेषु म ।