पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२५१ प्रथमः खण्डः १] छान्दोग्योपनिषत् । एवं परीक्षितेषु वागादिष्वथानन्तरं ह स मुख्यः प्राण उच्चिनमिषन्नुत्क्रमितुमिच्छन्किमकरोदित्युच्यते । यथा लोके सुहयः शोभनोऽश्वः पड्वीशश कम्पादबन्धनकीलान्परीक्षणायाऽऽरूढेन कशया हतः सन्संखिदेत्समुत्खनेसमुत्पाटयेत्, एवमितरोन्वागादीन्प्राणान्समखिदत्समुद्धृतवान् । ते प्राणाः संचालिताः सन्तः स्वस्थाने स्थातुमनुत्सहमाना अभिसमेत्य मुख्यं प्राणं तमूचुहे भगवन्नेधि भव नः स्वामी यस्मात्त्वं नोऽरमाकं श्रेष्ठोऽसि मा चास्मादेहादुत्क्रमीरिति ।। १२ ॥ परीक्षितेषु श्रेष्ठतारहितेषु निरूप्य निश्चितेवित्येतत् । पदनशीलाः पादास्तेषां संहतिः पड्विस्तस्या ईश। नियामकाः शङ्कयो वर्णविकारइछान्दसः । तान्यथोक्तानश्वो युगपदुत्पादयेद्यथति दृष्टान्तमुक्वा दार्टान्तिकमाह-एवमिति ॥ १२॥ अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽतीत्यथ हैनं चक्षुरुवाच यदह प्रतिष्ठाऽस्मि त्वं तत्प्रतिष्ठाऽसीति ॥ १३ ॥ अथ हैन५ श्रोत्रमुवाच यदह संपदस्मि त्वंतत्संपद. सीत्यथ हैनं मन उवाच यदहमायतनमस्मि त्वं तदायतनमसीति ॥ १४॥ अथ हैनं वागादयः प्राणस्य श्रेष्ठत्वं कार्येणाऽऽपादयन्त आहुबैलिमिव हरन्तो ज्ञे विशः । कथं, वाक् ताव दुवाच यदहं वसिष्ठोऽस्मि यदिति क्रिया. विशेषणं यद्वसिष्ठत्वगुणाऽस्नीत्यर्थः । त्वं तद्वसिष्ठस्तेन वसिष्ठत्वगुणेन त्वं तद्वसिष्ठोऽसि तद्गणस्त्वमित्यर्थः । अथवा तच्छन्दोऽपि क्रियाविशेषणमेव । त्वत्कृतस्त्वदीयोऽसौ वसिष्ठत्वगुणोऽज्ञानान्ममेति मयाऽभिमत इत्येतत् । तथोत्तरेषु योज्यं चक्षुःश्रोत्रमनःसु ॥ १३ ॥ १४ ॥ मयि श्रेष्टत्वधीयुष्मामरतीति कथं ज्ञातुं शक्यमित्याशङ्कयाऽऽह-अथेति । वचनं प्रश्नपूर्वकं प्रकटयति-कथमित्यादिना । क्रियाविशेषणत्वमेव विशदयति-यद्वासिष्ठत्वेति । वसिष्ठत्वेन गुणेनाहं गुणवानस्मीति यत्तत्त्वमेवेति योजना । अनन्तरं वाक्य. १ च. ठ. पीलकान् । २ घ. ङ. च.. . रानन्यान्वागा । ३ ख. घ. ड. च. अ. ठ. ढ. ण. श्रेष्ठ ।। ५ क. ग. ह. डा. ट. ठ. ह. ढ. ण. राज्ञो । ५ घ. ठ. ढ. गुणोऽस्मी। ६ ख. घ. च. ञ. उ. ड. °न त क. ग. इ.म. ट. . ण. 'ण एव । ८ म.उ. 'कमिति । १ . छ. अ.ट, ण. 'नारखा।