पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२५२ आनन्दगिरिकृतीकासंवलित शांकरभाष्यसमैता-[५पञ्चमाध्यायमादाय व्याचष्टे त्वमित्यादिका। तद्वसिष्ठ इति समस्तपदमिति गृहीत्या व्यायाल पक्षान्तरमाङ्क-अथ वेति । यच्छन्दवदित्यपेरर्थः । अहं वसिष्ठवगुनेऽस्मीति यत्त त्वमेव वसिष्टत्वगुणोऽसीति कथमिदानीमुच्यते । अन्यथा हि पूर्वमभिधानं तवाऽऽसीदि. त्याशङ्कयाऽऽह-त्वत्कृत इति । वाचि दर्शितं न्यायं चक्षुरादावतिदिशतितथेति ॥ १३ ॥१४॥ न वै वाचो न चषषि न श्रौत्राणि न मना* सीत्याचक्षते प्राणा इत्येवाऽचक्षते प्राणो होवैतानि सर्वाणि भवति ॥ १५ ॥ इति पञ्चमाध्यायस्य प्रथमः खण्डः ॥३॥ श्रुतरिदं वचो युक्तमिदं वागादिभिमुख्य प्राणं प्रत्यभिहितं यस्मान के लोके वाचो न चभूषि न श्रोत्राणि न मनांसीति वागादीनि करणान्याचक्षते लौकिका आममज्ञा वा कि तर्हि प्राणा इत्येवाऽऽचक्षते कथयन्ति यस्मात्प्राणो येवैतानि सर्वाणि बागादीनि करणजातानि भवत्यतो मुख्यं प्राणं प्रत्यनुरूपमेव वागादिभिरुक्तमिति प्रकरणामुपसंजिहीर्षति । वागादिवचनादुन्याय प्राणाधीनतां वागादेः श्रुतिरेव कथयतीत्युत्तरस्य न वै वाचः इत्यादेस्तात्पर्थमाह - श्रुतेरिति । तदेव च सोपस्कारं व्याकरोति-युक्तमित्यादिना । यदि सर्वाण्येव करणानि वाक्तत्राणि स्युस्तहिँ वाच इत्येव तानि ब्रूयुः । यदि चक्षुस्तत्राणि स्युस्तदा सर्वाण्येव चक्षुषीति वदेयुः । न चैवं वदन्ति, प्राणा इति तु तानि कथयन्ति । तस्मात्प्राणपारतन्त्र्यं करणाचां सिद्धमित्यर्थः । वागादिभिरुक्तं त्वं तद्वसिष्ठोऽ, सीत्यादि प्राणस्यैव यथोक्तगुणवतो ध्येयत्वं प्रकरणार्थः । साक्षादुपसंहारादर्शनादुपसजि. हर्षिीयुक्तम् । ननु कथमिदं युक्तं चेबनावन्तः इव पुरुषा अहंश्रेष्ठतायै ऋविवदन्तोऽन्योन्यं स्पर्धेरनिति । न हि चक्षुरादीनां वाचं प्रत्याख्याय प्रत्येकं वदनं संभवति । तथाऽपगमो, देहात्पुनः प्रवेशो ब्रह्मगमनं प्राणस्तुतिर्वोपपद्यते । ___आख्यायिकाया यथाश्रुतमर्थमाक्षिपति-नन्विति । यथा पुरुषाश्चेतनावन्तो विवदमानाः स्पर्धन्ते तथा वागादयोऽचेतनाः स्वकीयश्रेष्ठत्वसिद्धयर्थं विप्रतिपन्ना. मिथ::

  • उत्तरवावाति विवदमाना, इत्येव. युक्तः पाठः ।...

१ क. ग. ट. ढ. °धानस्तवा । २ ख. अ. मुख्यपा । ३ च. द. ति. च वा ५ ४ ट, ठ, द वचनं ।