पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

द्वितीयः खण्ड २] छान्दोग्योपनिषत् । २५५ संक्षिपति-वागादीनामिति । फलवती कल्पनेति शेषः । दृष्टेऽप्यर्थे श्रुतिमनुप्राहकावेच दर्शयति-तथा चेति ॥ १५ ॥ इति पञ्चमाध्यायस्य प्रथमः खण्डः ॥ १ ॥ (अथ पञ्चमाध्यायस्य द्वितीयः खण्डः ।) स होवाच किं मेऽन्नं भविष्यतीति यत्किंचिदिदमा श्वस्य आ शकुनिष्य इति होचुस्तद्वा एतदनस्यानमनो ह वै नाम प्रत्यक्षं न ह वा एवंविदि किंच नानन्नं भवतीति ॥ १ ॥ स होवाच मुख्यः प्राणः किं मेनं भविष्यतीति । मुख्य प्राणं प्रष्टारमिव वल्पयित्वा वागादीन्प्रतिवक्तनिष कल्पयन्ती श्रुतिराह-यदिदं लोकेऽन्नजातं प्रसिद्धमा श्वभ्यः श्वभिः सहाऽऽ शकुनिभ्यः सह शकुनिभिः सर्वप्राणिनां यदन्नं तत्तवान्नमिति होच गादय इति । प्रागस्य सर्वमन्नं प्राणोऽत्ता सर्वस्यान्नस्येत्येचं प्रतिपत्तये कल्पिताख्यायिकारूपायावृत्य स्वेन श्रुतिरूपेणाऽऽह । तद्वा एतद्यत्किचिल्लो के प्राणिभिरन्नमद्यतेऽनस्य माणस्य तदन्नं प्राणेनैव तदद्यत इत्यर्थः । सर्वप्रकारचेष्टाव्याप्तिगुणप्रदर्शनार्थमन इति प्राणस्य प्रत्यक्ष नाम । प्रायुषसगंपूर्वत्वे हि विशेषगतिरेव स्यात् । तथाच सवानानामत्तुनोमग्रहणमितीदं प्रत्यक्षं नौमान इति सर्वान्नानामत्तः साक्षादभिधानम् । न ह वो एवंविदि यथोक्तप्राणविदि प्राणोऽहमस्मि सर्वभूतस्थः सर्वान्नानामत्तेति तस्मिन्नेवंविदि ह वै किंचन किंचिदपि प्राणिमिराचं सर्वैर नन्नमन्नाद्यं न भवति सबमेवं. विद्यन्नं भ तीत्यर्थः । प्राणभूतत्वाद्विदपः । “प्राणाद्वा एष उदेति प्राणेऽस्तभेति' इत्युपक्रम्य-" एवंविदो ह वा उदेति सूर्य एवंविद्यस्तमेति" इति श्रुत्यन्तरात् ।। १॥ वागादीनां स्वामी श्रेष्टय दिगुणः प्राणोऽस्मीति विद्यादिति प्रधानविद्यामुपदिश्य तदर्शनाङ्गभूतान्नवास दृष्टविधानार्थ प्रक्रमे प्रथममन्नदृष्टं विधातुं प्रसङ्गं प्रकुरुते--स होवाचेति । मुख्यस्य प्राणस्य प्रष्टत्वं वागादीनां प्रतिवक्तृत्वं च काल्पनिकमित्याह--- मुख्यमिति । यदिदमित्युक्तमेव च यत्पदं वाक्यार्थकल्पनार्थ यदन्न मित्यत्र नद्यो । १. उ. 'प्टेऽर्थे । २ ठ. यत्किंचिद्यादि । ३ ख. .. . . . . नाम स । १ ख . न. विदोऽभ ।