पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२५८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [५पञ्चमाध्यायेवाक्यमित्युत्तरमाह-नेत्यादिना । वासोर्थत्वमन्यार्थत्वं दृष्टयर्थत्वमित्युक्ते प्राणस्यैकस्य वाक्यस्याप्रमाणत्वप्रसङ्गादिति यावत् ॥ २॥ तद्वैतत्सत्यकामो जाबालो गोश्रुतये वैयाघपयायोक्त्वोवाच यद्यप्येनच्छुष्काय स्थाणवे ब्रूयाज्जायेर नेवास्मिञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ३ ॥ तदेतत्प्राणदर्शनं स्तूयते । कथम् । तद्वैतत्प्राणदर्शनं सत्यकामो जाबालो गोश्रुतये नाम्ना वैयाघ्रपद्याय व्याघ्रपदोऽपत्यं वैयाघ्रपद्यस्तस्मै गोश्रुत्याख्यायोक्त्वोवाचान्यदपि वक्ष्यमाणं वचः । किं तदुवाचेत्याह-यद्यपि शुष्काय स्थाणव एतद्दर्शनं ब्रूयात्प्राणविज्जायेरन्नुत्पद्येरन्नेवास्मिन्स्थाणौ शाखाः प्ररोहेयुश्च पलाशानि पत्राणि, किमु जीवते पुरुषाय ब्रूयादिति ॥ ३ ॥ तद्धतदित्यादि वाक्यं च विधानार्थं नापि फलवचनं तथाच व्यर्थमित्याशङ्कयाऽऽह-- तदेतदिति । स्तुतिमेव प्रश्नपूर्वकं विवृणोति-कथामति । जीवते पुरुषाय प्राणविद्यावदेतदर्शनं ब्रूयात्तदाऽस्मिन्मह,फलं भवतीति किमु वक्तव्यमिति योजना ॥ ३ ॥ यथोक्तप्राणदर्शनविद इदं मन्याख्यं कर्माऽऽरभ्यते अथ यदि महजिगमिषेदमावास्यायां दीक्षित्वा पौर्णमास्या रात्रौ सर्वोषधस्य मन्थं दधिमधुनो. रुपमथ्य ज्येष्ठाय श्रेष्ठाय स्वाहेत्यनावाज्यस्य हुत्या मन्थे संपातमवनयेत् ॥ ४ ॥ अथानन्तरं यदि महन्महत्त्वं निगमिषेद्न्तुमिच्छेन्महत्त्व प्राप्तं यदि कामयेतेत्यर्थः । तस्येदं कर्म विधीयते । महत्त्वे हि सति श्रीरुपनमते । श्रीमतो ह्यर्थप्राप्त धनं ततः कर्मानुष्ठानं ततश्च देवयानं पितृयाणं वा पन्थानं पतिपत्स्यत इत्येतत्प्रयोजनमुररीकृत्य महत्त्वप्रेप्सोरिदं कर्म न विषयोपभोगकामस्य । तस्यायं कालादिवि. धिरुच्यते-अमावास्यायां दीक्षित्वा दीक्षित इव भूमिशयनादिनियमं कृत्वा तपोरूपं सत्यवचनं ब्रह्मचर्यमित्यादिधर्मवान्भूत्वेत्यर्थः । न पुनक्षमेव कर्मजातं सर्व १ ख. अ. ट. प्येतच्छु । २ ङ. 'न्याख्यक । ३ व. उ. प. उ. 'हत्त्वप्राप्तिं य'। ४ ङ. ड. ढ. नमूरी।