पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२६० आनन्दगिरि कृतटीकासंचलितशांकरभाष्यसमेता-- [ ५पञ्चमाध्याये समानमन्यत् । वसिष्ठाय प्रतिष्ठायै संपद आयतनाय स्वाहति प्रत्येकं तथैव संपातमवनयेद्धत्वा ।। ५॥ वसिष्ठाय स्वाहेत्यादिवाक्यं पूर्ववाक्येन (ण) तुल्यार्थमित्याह-समानमिति । तुल्यत्वमेव स्पष्टयति-वसिष्ठायति । स्वाहेति मन्त्रं समुच्चार्य हुत्वेति संबन्धः । तथैव प्रथमहोमानन्तरमित्यर्थः ॥ ५॥ अथ प्रतिस्प्याअलौ मन्थमाधाय जपत्यमो नामास्यमा हि ते सर्वमिद स हि ज्येष्ठः श्रेष्ठो राजाऽधिपतिः स मा ज्येष्ठय श्रेष्ठ्य राज्यमाधिपत्यं गमयत्वहमेवेद५ सर्वमशानीति ॥ ६ ॥ अथ प्रतिसृप्याग्नेरी पदप सध्याञ्जलो मन्थमाधाय जपतीम मन्त्रम् | अमो नामास्यमा हि ते । अम इति प्राणस्य नाम । अनेन हि प्राणः प्राणिति देह इत्यतो मन्थद्रव्यं प्राणस्यानत्वात्प्राणत्वेन स्तूयतेऽमो नामासीति । कुतः । यतोऽमा सद्द हि यस्मात्ते तक प्राणभूतस्य सर्व समस्तं जगदिदमैतः । स हि प्राणभूतो मन्थो ज्येष्ठः श्रेष्ठश्च । अत एवं च राजा दीप्तिमानधिपतिश्चाधिष्ठाय पालयिता सर्वस्य । स मा मामपि मन्थः प्राणो ज्थेष्ठयादिगुणपूगमात्मनो गमयत्वहमेवेदं सर्व जगदसानि भवानि प्राणवात् । इतिशब्दो मन्त्रपरिसमाप्त्यर्थः॥६॥ आहुत्यानन्तर्यमयशब्दार्थः । भवतु प्राणस्येदं नाम मन्थस्य तु कथं मन्त्रार्थत्वमित्याशयाऽऽह–अन्नेन हीति । प्रतिज्ञातेऽर्थे प्रश्नपूर्वकं हेतुमाह-कुत इति । अतश्चागो नामासीति पूर्वेण संबन्धः । हेतुं व्याचष्टे-~-यस्मादिति ॥ ६ ॥ अथ खल्वेत्यर्चा पच्छ आचामति तत्सवितुर्वणीमह इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठ सर्वधातममित्याचामति तुरं भगस्य धीमहीति सर्व पिबति निणिज्य कसं चमसं वा पश्चादनेः । १ ग. ट. मन्त्रम् । २ क. ग. व. च. अ. . उ. मतोऽसौ नामासीत्यर्थः । स । ३ घ. उ. व रा । ४ व. टु, च. इ. ण. 'जो ज्येशादि। ५ क. ग. अ. द. वस । ६ ख. अण,सप्रश्न