पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

द्वितीयः खण्डः २] , छान्दोग्योपनिषत् । ३६१ संविशति चर्मणि वा स्थण्डिले वाबाचंयमोऽप्रसाहः स यदि स्त्रियं पश्येत्समृद्धं कर्मेति विद्यात् ॥ ७ ॥ अथानन्तरं खल्वेतया वक्ष्यमाणयर्चा पच्छः पादश आचामति भक्षयति, मन्त्रस्यैकैकेन पादेनैकैकं ग्रासं भक्षयति । तद्भोजनं सवितुः सर्वस्य प्रसवितुः । प्राणमादित्यं चैकीकृत्योच्यते । आदित्यस्य वृणीमहे माथेयेमहि मन्थरूपम् । येनान्नेन सावित्रेण भोजनेनोपभुक्तेन वयं सवितृस्वरूपापन्ना भवेमेत्यभिप्रायः । देवस्य सवितुरिति पूर्वेण संबन्धः । श्रेष्ठं प्रशस्यतमं सर्वान्नेभ्यः सर्वधातमं सर्वस्य जगतो धारयितृतममतिशयेन विधातृतममिति वा । सर्वथा भोजनविशेषणम् । तुरं त्वरं तूर्णं शीघमित्येतत् । भगस्य देवस्य सवितुः स्वरूपमिति शेषः । धीमहिं चिन्तयेमहि विशिष्टभोजनेन संस्कृताः शुद्धात्मानः सन्त इत्यभिप्रायः । अथवा भगस्य श्रियः कारणं महत्त्वं प्राप्तुं कर्म कृतवन्तो वयं तद्धीमहि चिन्तयेमहीति सर्वं च मन्थलेपं पिवति निर्णिज्य प्रक्षाल्य कसं कंसाकारं चमसं चमसाकारं वौदुम्बरं पात्रम् । पीत्वाऽऽचभ्य पश्चादनेः प्राक्शिराः संविशति चर्मणि वाऽजिने स्थण्डिले केवलायां वा भूमौ । वाचंयमो वाग्यतः सन्नित्यर्थः । अमसाहो न प्रसह्यते नाभिभूयते ख्याद्यनिष्टस्वमदशेनेल यथा तथा संयतचित्तः सन्नित्यर्थः । स एवंभूतो यदि स्त्रियं पश्येत्स्वमेषु तदा विद्यात्समद्धं ममेदं कर्मति ॥ ७॥ अनन्तरं जपकर्मणः सकाशादिति शेषः । तदेव स्पष्टयति-मन्त्रस्येति । मन्त्रस्यैकैकन पादेन मन्थस्यैकैकं प्रासं भक्षयतीति योजना | भोजनं मन्थरूपमिति संबन्धः । तत्कथं सवितुः स्यात्प्राणस्य हि मन्धद्रव्यमन्नमित्युक्तं तत्राऽऽह--प्राणमिति । उच्यते सवितु जनमिति शेषः । प्राणादित्ययोरेकत्वे फलितं वाक्यार्थमाह--आदित्यस्येति । मन्थरूपं तद्भोजनमिति पूर्वेण संबन्धः । प्रार्थनाविषयं भोजनमेव विशिनष्टि-येनेति । तस्यैव विशेषणान्तरं श्रेष्ठमित्यादि । स्थितिकारणत्वमुक्त्वा जनकत्वं पक्षान्तरमाह--अतिशयेनेति । जगद्व्याप्तौ फलदाने ध्यातुः शैघ्यम् । किमिति भोजने कथ्यमाने ध्यानमुच्यते तत्राऽऽह--विशिष्टोति । शुद्धधीत्वं ध्यानकारणमुक्त्वा प्रकृतकर्मवत्प्रेप्सितमहत्त्वे हेतुत्वादपि ध्यानमनुष्टेयमित्याह--अथवेति । सावित्रं रूपमुक्तं नियमेनौदुम्बरं वैकल्पिता....१ ग. ङ. ड. ड. मन्थस्यै । २ क. कैकया । ३ ऊ. द. मही । ४ ख. घ. डा. ञ. ड, ढ, 'मै त । ५ ग. मन्थस्ये ।