पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२६२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[५ पञ्चमाध्यायेकारे विशेषः । पात्रं प्रक्षाल्य पिबतीति संबन्धः । मन्थलेपं पात्रं प्रक्षाल्य पीत्वाऽऽचमनपूर्वकमग्नेः पश्चिमभागे कृष्णाजिनव्यवहितायां केवलायां वा भूमौ प्राक्शिरा भूत्वा शयीतेत्याह--पीत्वेति । शयानस्य कर्तव्यं दर्शयति-वाचंयम इति । तस्य स्वप्ने कथंचिदुत्तमस्त्रीदर्शने शुभागमः सूच्यत इत्याह-स एवंभूत इति ॥ ७ ॥ तदेष श्लोको यदा कर्मसु काम्येषु स्त्रिय५ स्वभेषु पश्यति समृद्धिं तत्र जानीयात्तस्मिन्स्वमनिदर्शने तस्मिन्स्वप्ननिदर्शने ॥ ८॥ या इति पञ्चमाध्यायस्य द्वितीयः खण्डः ॥ २॥ तदेतस्मिन्नर्थ एप श्लोको मन्त्रोऽपि भवति । यदा कर्मसु काम्येषु कामार्थेषु स्त्रियं स्वप्रेषु स्वप्नदर्शनेषु स्वमकालेषु वा पश्यति समृद्धिं तत्र जानीयात् । कर्मणां फलनिष्पत्तिर्भविष्यतीति जानीयादित्यर्थः । तस्मिन्सयादिप्रशस्तस्वमंदर्शने सतीत्यभिप्रायः । द्विरुक्तिः कर्मसमाप्त्यर्था ॥ ८ ॥ इति पञ्चमाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ इति पञ्चमाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ (अथ पञ्चमाध्यायस्य तृतीयः खण्डः।) ब्रह्मादिस्तम्बपर्यन्ताः संसारगतयो वक्तव्या वैराग्यहेतोर्मुमुक्षूणामित्यत आख्यायिकाऽऽरभ्यते श्वेतकेतुर्हाऽऽरुणेयः पश्चालाना समितिमेयाय त५ है प्रवाहणो जैवलिरुवाच कुमारानु त्वाऽशिषत्पिते त्यनु हि भगव इति ॥ १ ॥ श्वेतकेतु मतो ह, इत्यतिह्यार्थः । अरुणस्यापत्यमारुणिस्तस्यापत्य पारुणेयः पञ्चालानां जनपदानां समिति सभामेयायाऽऽजगाम । तमा १५. ठ. षु पौं। २ . उ. च. ढ. मपरिस। ३ रू. ग. ङ. त्र. ट. ड. ढ. याय ज। ४ ख. ग. ह. द. ठ, ड, ढ, ण. °म । तं ग ।