पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

तृतीयः खण्डः ३] छान्दोग्योपनिषत् । २६३ गतवन्तं ह प्रवाहणो नामतो जीवलस्यापत्यं जैवलिरुवाचोक्तवान् । हे कुमारानु त्वा त्वामशिपदन्वशिषत्पिता । किमनुशिष्टस्त्वं पिनेत्यर्थः । इत्युक्तः स आहानु श्वनुशिष्टोऽस्मि भगव इति सूचयन्नाह ॥ १॥ प्राणविद्या तदङ्गकर्म चत्युभयमुक्तमिदानीमग्निविद्यामाख्यातुकामस्तावदाख्यायिकोता. त्पर्यमाह-ब्रह्मादीति । तासां च वक्तव्यत्वे हेतुमाह-वैराग्यहेतोरिति । राजा कुमारेति संबोधयन्नभिमानं श्वेतकेतोरपनिनीषति ॥ १॥ वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति वेत्थ यथा पुनरावर्तन्त ३ इति न भगव इति वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना३ इति न भगव इति ॥ २॥ तं होवाच यद्यनुशिष्टोऽसि वेत्थ यदितोऽस्माल्लोकादध्यूज़ यत्प्रजाः प्रयन्ति यद्गच्छन्ति तत्कि जानीष इत्यर्थः । न भगव इत्याहेतरो न जानेऽहं तद्यत्पृच्छसि। एवं तर्हि वेत्थ जानीषे यथा येन प्रकारेण पुनरावर्तन्त इति । न भगव इति प्रत्याह । वेत्थ पथोगियोः सहप्रयाणयोर्देवयानस्य पितृयाणस्य च व्यावर्तनमितरेतरवियोगस्थानं सह गच्छतामित्यर्थः । न भगव इति ॥२॥ यथेत्यस्यार्थमाह -येनेति । विद्वदविदुषोस्तुल्यमार्गयोः सतो मार्गों तयोर्मध्ये देवयानस्येत्यादि योज्यम् । उक्तं वाक्याथ संक्षिपति- इतरेतरेति । विदुषः च कर्मिणां च मार्गद्वयमधिकृत्य सह प्रस्थितानां यत्र मिथो वियोगो भवति तत्किं वेत्थेत्यर्थः ॥ २॥ वेत्थ यथाऽसौ लोको न संपूर्यत३ इति न भगव इति वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति नैव भगव इति ॥ ३॥ वेत्थ यथाऽसौ लोकः पितृसंबन्धी यं प्राप्य पुनरावर्तन्ते बहुभिः प्रयद्भि रपि येन कारणेन न संपूर्यत इति । न भगव इति प्रत्याह । वेत्थ यथा येन क्रमेण पञ्चम्यां पञ्चसंख्याकायामाहुती हुतायामाहुतिनित्ता आहतिसाधनाश्चाऽऽपः पुरुषवचसः पुरुष इत्येवं वचोऽभिधानं यासा हूयमानानां क्रमेण षष्ठाहुतिभूतानां ताः पुरुषवचसः पुरुषशब्दवाच्या भवन्ति १ ण. त्पितेति कि । २ क. 'कायास्मात्प' । ३ ङ. ड. ढ. सम । ४ अ. °षां क° ।