पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२६४ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[५ पञ्चमाध्याये पुरुषाख्यो लभन्त इत्यर्थः । इत्युक्तो नैव भगव इत्याह । नैवाहमत्र किंचन जीनामीत्यर्थः ॥३॥ पितृलोकसंबन्धिनं लोकमेव व्याकरोति-यं प्राप्यति । आहुतिनिर्वृत्ता इत्यस्या व्याख्यानमाहुतिसाधनाश्चेति । अपूर्वरूपाणामपां भूतान्तरसमुच्चयार्थश्चकारः । अथवा पयोघृतादिरूपेणाऽऽहुतिं साधयन्तीति चाऽऽहुत्या पुनरपूर्वात्मना निष्पन्ना इत्यर्थः । क्रमेणोति । श्रद्धासोमवृष्टयन्नरेतसां हवनद्वारेणेति यावत् । षष्ठाहुतिभूतानामन्त्येष्टिविधानेन शरीराहुतिद्वारा सूक्ष्मतां गतानामित्यर्थः ॥ ३ ॥ अर्थानु किमनुशिष्टोऽवोचथा यो हीमानिन विद्यात्कथ५ सोऽनुशिष्टो ब्रुवीतेति स हाऽऽयस्तः पितुरर्धमेयाय त होवाचाननुशिष्य वाव किल मा भगवानबवीदनु त्वाऽशिषमिति ॥ ४॥ अथैवमज्ञः सन्किमनु कस्मात्त्वमनुशिष्टोऽस्मीत्यवोचथा उक्तवानसि । यो होमानि मया पृष्टान्यर्थजातानि न विद्यान्न विजानीयात्कथं स विद्वत्स्वनुशिष्टोऽस्मीति ब्रुवीत । इत्येवं स श्वेतकेतू राज्ञाऽऽयस्त आयासितः सन्पितुर स्थानमेयायाऽऽगतवांस्तं च पितरमुवाचाननुशिष्यानुशासनमकृत्वैव मा मा किल भगवान्समावर्तनकालेऽब्रवीदुक्तबाननु त्वाऽशिपमन्वशिषं त्वामिति ॥४॥ त्वपृष्टार्थजातातिरिक्तविषयमनुशासनं ममास्तीत्यनुशिष्टोऽस्मीत्युक्तमित्याशङ्कयाऽऽहयो हीति ॥ ४ ॥ पञ्च मा राजन्यबन्धुः प्रश्नानप्राशीलेषां नैकंचनाशकं विवक्तुमिति स होवाच यथा मा त्वं तदैतानवदो यथाऽहमेषां नैकंचन वेद यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यामिति ॥ ५॥ सह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायाहाँ. चकार स ह प्रातः समाग उदेयाय त५ होवाच मानुषस्य भगवन्गौतम वित्तस्य वरं १ ङ. जान इत्य । २ क. ण. ड. ज. झ. द. ठ, त. थ, अथ नु। ३ ग. ठ. न जा। ४ क. ख. च. अ. ड.ज. "याय ग !