पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

तृतीयः खण्डः ३] छान्दोग्योपनिपन् । २६५ वृणीथा इति स होवाच तवैव राजन्मानुषं वित्तं यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे हीति स ह कृच्छी बभूव ॥ ६॥ यतः पञ्च पञ्चसंख्याकान्प्रश्नान्राजन्यवन्धू सजन्या बन्धवोऽस्यति राजन्यबन्धुः स्वयं दुर्वत्त इत्यर्थः । अप्राक्षीत्पृष्टवांस्तेषां प्रश्नानां नैकंचनैकमपि नाशकं न शक्तवानहं विवक्तुं विशेषेणार्थतो निर्णेतुमित्यर्थः । स होवाच पिता यथा मा मां वत्स त्वं तदाऽऽगतमात्र एवैतान्प्रश्नानवद उक्तवानसि तेषां नैकंचनाशकं विवक्तमिति तथा मां जानीहि, त्वदीयाज्ञानेन लिङ्गेन मम तद्विषयमज्ञानं जानीहीत्यर्थः । कथं, यथाऽहमेषां प्रश्नानामेकंचनैकमपि न वेद न जान इति । यथा त्वमेवाङ्तान्पश्चान्न जानीपे तथाऽहमप्येतान्न जान इत्यर्थः । अतो मय्यन्यथाभावो न कर्तव्यः । कुत एतदेवं यतो न जाने यद्यहमिमान्प्रभानवेदिष्यं विदितवानस्मि कथं ते तुभ्यं प्रियाय पुत्राय समावर्तनकाले पुरा नावक्ष्यं नोक्तवानस्मीत्युक्त्वा स ह गौतमो गोत्रतो राज्ञो जैवलेरधैं स्थानमेयाय गतवान् । तस्मै ह गौतमाय माप्तायाहमिहणां चकार कृतवान् । स च गौतमः कृतातिथ्य उषित्वा परेयुः प्रातःकाले सभागे सभां गते गझुदेयाय । भजनं भागः पूजा सेवा सह भागेन वर्तमानो वा सभागः पूज्यमानोऽन्यः स्वयं गौतम उदेयाय राजानमुद्गतवान् । तं होवाच गौतम राजा मानुषस्य भगवन्गौतम मनुष्यसंबन्धिनो वित्तस्य ग्रामादेवरं वरणीयं कामं वृणीथाः प्रार्थयेथाः। स होवाच गौतमस्तवैव तिष्ठतु राजन्नानुषं वित्तम् । यामेव कुमारस्य मम पुत्रस्यान्ते समीपे वाचं पञ्चप्रश्नलक्षणामभापथा उक्तवानास तामेव वाचं मे मह्यं ब्रूहि कथयेत्युक्तो गौतमेन राजा स ह कृच्छ्री दुःखी बभूव । कथं विदमिति ॥ ५ ॥ ६॥ । अननुशिष्य त्वामन्वशिषमिति कथमुक्तवानस्मीत्याशङ्कयाऽऽह-यत इति । नैकंचने. १. ग. वो यस्ये' । २ क. ग. च. ट. गममात्र मवै । 3 ठ. 'त्रमे । ४ ग. ट. 'मेतान । ५ ख. ण. "वाङ्ग न जा । ६ क. ग. च. ट. तो य । ७ ख. ग. च. अ.ट. ड. म. ईणं च । ८ ग. घ. ङ. ट. ठ. ह. सभाग' । ९ ग. च. ट ड. ढ. राजन्यु । १.३ च. ठ. ड. °थं विद।