पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२६६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[५ पञ्चमाध्यायेत्युक्तमेव नज्यदं नाशकमिति संबन्धं दर्शयितुं पुनरुपात्तम् । अतो मा प्रति तब मिथ्यावादिता सिद्धेति शेषः । पिता स्वकीयमिथ्यावादित्वशङ्कां परिहरति-स होवाचेति । यथा मा त्वमित्यादिवाक्यं पूरयित्वा व्यारूपायानन्तरवाक्यमाकाङ्क्षापूर्वकमुत्थापयतिकथमित्यादिना । तयाचष्टे--यथेति । अज्ञानाविशेषोऽतःशब्दार्थः । अन्यथाभावो ज्ञातेऽपि विषये तवानुक्तिरिति यावत् । त्वदीयमज्ञानं कुतो हेतोया ज्ञातव्यमियाशङ्कामुद्भाव्यानन्तरवाक्येनो(णोत्तरमाह-कुन इत्यादिना । अतस्तव पात्रभूतस्यानुपदेशानमदीयमज्ञानं ज्ञातव्यमिति शेषः । अर्हणां योग्यां पूजामियर्थः । सभागपदं सप्तम् पन्त राजविषयं प्रथमान्तं गौतमविषयमिति भेदः । गौतममागतं योगक्षेमार्थिनं बुवा राजा प्रसन्नः सन्नुक्तवानित्याह-तं होवाचेति । तर्हि कृतकृयस्य तव किमित्यागमनमित्या. शङ्कयाऽऽह-यामेवेति । कृच्छीभावमाभिनयति-कथमिति ॥ ५ ॥ ६ ॥ तह चिरं वसेत्याज्ञापयांचकार त होवाच यथा मा त्वं गौतमावदो यथेयं न प्राक्त्वत्तः पुरा विद्या ब्राह्मणान्गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति तस्मै होवाच ॥ ७ ॥ इति पञ्चमाध्यायस्य तृतीयः खण्डः ॥ ३॥ स ह कृच्छीभूतोऽप्रत्याख्येयं ब्राह्मणं मन्यानो न्यायेन विद्या वक्तव्येति मत्वा तं ह गौतमं चिरं दीर्घकालं वसेत्येवमाज्ञापयांचकाराऽऽज्ञप्तवान् । यत्पूर्व प्रत्याख्यातवानराजा विद्यां यच्च पश्चाच्चिरं वसेत्याज्ञप्तवान् , तनिमित्तं ब्राहा गं क्षमापयति हेतुवचनोक्त्या । तं होवाच राजा सर्व विद्या ब्राह्मणोऽपि सन्यथा येन प्रकारेण मा मां हे गौतमावदस्त्वं तामेव विद्यालक्षणां वाचं मे ब्रूहीत्यज्ञा. नात्तेन त्वं जानीहि । तत्रास्ति वक्तव्यं यथा येन प्रकारेणेयं विद्या प्राक्त्वत्तो ब्राह्मणान्न गच्छति न गतवती, न च ब्राह्मगा अनया विद्ययाऽनुशासितवन्तः, तथैतत्प्रसिद्धं लोके यतस्तस्मादु पुरा पूर्व सर्वेषु लोकेषु क्षत्रस्यैव क्षत्र जातेरेवानया विद्यया प्रशासनं प्रशास्तृत्वं शिष्याणामभूद्रभूव । क्षचि. १ ग. ट. 'ज्ञातावि । २ ग. घ. द. च. ठ. इ. ढ. स कृ । ३ ङ. ड. क्षमपति । च. ठ. इ. क्षामयति । ४ घ, ङ, च. ज. ठ. नुशिष्ट ।