पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

चतुर्थः खण्डः ४ ] छान्दोग्योपनिषत् । २६७ यपरम्परयैवेय विद्यैतावन्त कालमागता । तथाऽप्यहमेतां तुभ्यं वक्ष्यामि त्वत्संप्रदानादूर्व ब्राह्मणान्गमिष्यति । अतो मया यदुक्तं तत्क्षन्तुमर्हसीत्युक्त्वा तस्मै होवाच विद्यां राजा ॥ ७ ॥ इति पश्चमाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ गैतमस्य वचनं राज्ञो दुःखीभावकारणं तर्हि प्रत्याख्यायतामित्याशङ्कयाऽऽह-स हेति । किमिति तहिं चिरं वसेत्युक्तवानियत आह-न्यायनेति । संवत्सरं वसेति यावत् । वक्तव्या विद्येति शेषः । कथं राज्ञो ब्राह्मणं प्रत्याज्ञां कुर्वतो न प्रत्यवायः स्यादि. त्याशङ्कयाह -यत्पूर्वमिति । प्रत्याख्यानादिविषयं हेतुवचनम् । न केवलं विद्यावशादेव श्रेष्ठयं किंतु जातितोऽपत्यपेरर्थः । तर्हि ब्रूहि तां वाचमित्याशङ्कयाऽऽह-तत्रेति । विद्याप्रवचने प्रस्तुते सतीति यावत् । यथेत्यस्यापेक्षितं पूरयति-तथेति । प्रसिद्धमेव स्फोरयति-तस्मादिति । ब्रहणानामनया विद्यया प्रशास्तत्वस्य प्रागभावादिति यावत् । इतिशब्दोपात्तमर्थ कथयति-क्षत्रियेति । उक्त प्रत्याख्यानादिकारणमतःशब्दार्थः ॥७॥ इति पञ्च माध्यायस्य तृतीयः खण्डः ॥ ३ ॥ ( अथ पञ्चमाध्यायस्य चतुर्थः खण्डः।) --- -- पञ्चम्यामाहुतावाप इत्ययं प्रश्नः प्राथम्येनापाक्रियते । तदपाकरणमन्वित रेषामपाकरणमनुकूलं भवेदिति । अग्निहोत्राहुत्योः कार्यारम्भो यः स उक्तो वाजसनेयके-"तं प्रति प्रश्नाः । उत्क्रान्तिराहुत्योगतिः प्रतिष्ठा तृप्तिः पुनरा. वृत्तिलोकं प्रत्युत्थायी" इति । तेषां चापाकरणमुक्तं तत्रैव-" ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतस्ते अन्तरिक्षमेवाऽऽहवनीयं कुर्वाते वायु समिधं मरीचीरेव शुक्लामाहुति ते अन्तरिक्षं तर्पयतस्ते तत उत्क्रामत इत्याद्येवमेव पूर्ववद्दिवं तपय तस्ते तत आवर्तेते । इमामाविश्य तपेयित्वा पुरुषमाविशतः। ततः स्त्रियमाविश्य लोकं प्रत्युत्थायी भवति" इति । तत्राग्निहोत्राहुत्योः कायोरम्ममात्रमेयंकारं भवतीत्युक्तम् । इह तु त कायोरम्भमग्निहोत्रापूर्वविपरिणामलक्षणं पञ्चधा प्रविभज्यामित्वेनोपासनमुत्तरमार्गप्रतिपत्तिसाधनं विधित्सन्नाह असौ वाव लोको गौतमाग्निस्तस्याऽऽदित्य १ क. ग. ट. कव्यवि । २ क. ग. ट. ड. ण. प ।