पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२६८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-५. पञ्चमाध्या एव समिश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गाः ॥ १॥ असौ वाव लाको गौतमाग्निरित्यादि । इह सार्यपातरनिहोत्राहुती हुते पयआदिसाधने श्रद्धापुरःसरे आहवनीयानिसमिद्भूमाचिरङ्गारावस्फुलिङ्गभावित कादिकारकभावित चान्तरिक्षक्रमेणोत्क्रम्य द्युलोकं प्रविशत्या सूक्ष्मभूत्ते अप्समवायित्वादशब्दवाच्ये श्रद्धाहेतुत्वाच्च श्रद्धाशब्दवाच्ये तयोरधिकरणोऽनिरन्यच्च तत्संबन्धं समिदादीत्युच्यते । या चासावग्न्यादिभावनाऽऽहुत्योः साऽपि तथैव निर्दिश्यते । असो वा लोकोऽग्निहे. गौतम यथाऽग्निहोत्राधिकरणमाहवनीय इह । तस्या लोकाख्यस्याऽऽदित्य एव समित्तेन हीद्धोऽसौं लोको दीप्यते । अतः समिन्धनात्समिदादित्यः । रश्मयो धूमस्तदुत्थानात , समिधो हि धूम उत्तिष्ठति । अहरर्चिः प्रकाशसामान्यात् , आदित्यकार्यत्वाच चन्द्रमा अङ्गाराः । अहःप्रशमेऽभिव्यक्तेः । अर्चिपो हि प्रशमेऽङ्गारा अभिव्यज्यन्ते । नक्षत्राणि विस्फुलिङ्गाश्चन्द्रमसोऽवयवा इव विप्रकीर्णत्वसामान्यात् ।।१॥ ननुः यथाप्रश्नमेव प्रतिवचनमुचितं पञ्चमं तु प्रश्नं प्राथन प्रतिवदता क्रमो निराकृतस्तत्र किं क.रणमत आह–पञ्चम्यामिति । अर्थकममनुसृत्य पाठक्रमोऽभिधातव्या इत्यर्थः । ननु वाजसनेयकेऽग्निहोत्रप्रकरणेऽग्निहोत्राढत्यपूर्वपरिणाम जन्मदित्युक्तं तदेवेहापि विवक्ष्यत इति चेकिमनेन. पिष्ठफ्षणन्यायेनेत्याशङ्कयार्थभेदं वक्तुमग्निहोत्रप्रकरणस्थितमर्थमचुवदति-अग्निहोत्राहुत्योरिति । उक्त कास्मेव प्रदर्शयन्प्रथमं याज्ञवल्क्यस्य जनक प्रति घट्प्रश्नानुस्थापयति-तं प्रतीति । कार्यारम्भस्तच्छन्दार्थः । अग्निहोत्राहुत्यन्नापूर्वपारणामो जगविष्यते । तत्राग्निहोत्रे सायं प्रातश्च हुतयोराहुत्योरस्माल्लोकादुत्क्रान्तिः । उत्क्रान्तयोः परलोकं प्रति गतिः । गतयोस्तत्र प्रतिष्टा । प्रतिष्टितयोंः स्वाश्रये संपाद्यमाना, तृप्तिः । तृप्तिमापाद्यावस्थितयों: पुनरिमं लोक प्रत्यावृत्तिः । आवृत्तयोराश्रयः पुमान्कथम,. लोकं प्रत्युत्थानशीलो भवतीति कार्यारम्भमधिकृत्य पटप्रश्नाः प्रवृत्ता इत्यर्थः । तत्रैव वाजसनेयकें याज्ञवल्क्यं प्रति जनकस्य प्रतिवचनं दर्शयति-तेपा. चेति । अपूर्वरूपे. खल्या. हुती यजमानमन्क्रामन्तं परिवेष्टयोत्क्रामतः । ते च धूमादिना यजमानेऽन्तरिक्षमाविशति ११. च. ठः ढ. लोक इत्या । २ क. गा च. ट. रिक्षं क' | ३ ङ. ढ. "म्य सू ।। ४ ख..व, च. त्र. बद्धं स । ५.ध. च, ठ. ण. व धुलो । ६.क. अहः प्रः ।. ७. क.. 'वश्चितमिति ।