पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

चतुर्थः खण्डः ४] छान्दोग्योपनिषत् । २६९ तदाश्रितत्वात्तदाविंशत: । ते पुनरन्तरिक्षस्थयजमानानुकूलतया स्थिते स्वयमन्तरिक्षाधिक - रणे तदाहवनीयमिव कुर्वाते । आहत्यधिकरणस्याऽऽहवनीयत्वात् । तत्र वायुं समिधमिव कुरुतः । वायुनाऽन्तरिक्षस्य समिध्यमानत्वात् । शुक्लां शुद्धामाहुतिमिवें मरीचीरेवाऽऽद. धाते । मरीचीनामन्तारक्षे व्याप्तत्वात् । ते चान्तरिक्षस्थे तनिष्ठं यजमानं फलोन्मुखमादधाते । ते पुनरन्तरिक्षादुत्क्रामति यजमाने सहोकामतः । यजमाने च द्युलोकमाविशति सहाऽऽविशतः । तमाविश्य तमेवाऽऽहवनीयं कुर्वाते आदित्यं समिधमित्याद्यन्तरिक्षवदेवो. नम् । यथा वाऽहुती पूर्वमन्तरिक्षं तर्पयत इत्युक्तं तथैव द्युलोकस्थयजमानं फलदानेन सुखिनमातन्वाते। ते च:ऽऽरब्धक्षये ततो द्युलोकाद्यजमाने पृथिवीमाविशत्यभूते सहाऽऽवतते । पृथिवीं चाऽऽविस ब्राह्य दिना स्व श्रां श्लेषयित्वा रेत:सिचं पुरुषमाश्रयद्वारणाऽs. विशतः । पुरुषाचं रेतोद्वारा द्वितीयां प्रकृतिमाविश्य गर्भ भूतं स्वाश्रयं कर्मानुष्ठानयोग्यं देहभागिनमापादयतः :। ततोऽसौ पारलौकिकं कर्मानुष्ठायान्ते लोकं प्रत्युत्थानशीलो भवति । इति सर्व जनकेनोक्तमित्यर्थः । तथाऽपि कथमर्थभेदसिद्धिरित्याशङ्कयोक्तमेव संक्षिप्याऽऽहतत्रेति । वाजसनेयकं सप्तम्यर्थः । प्रकृतश्रुतेस्र्थविशेषं दर्शयति-इह विति । पञ्चधा युपर्जन्यपृथिवीपुरुषयोषित्प्रकारेरिति यावत् । पञ्चाग्निसंबन्धमवतार्थ प्रथमपर्यायस्य तात्पर्यमाह---इहेति । अयं लोको भूलोकस्तस्मिन्नित्यर्थः । आहुत्योरप्समायित्वसि. यथं विशिनष्टिं--पयआदीति । तयोः श्रद्धास्वसिद्धयर्थः श्रद्धापुरःसरे इत्युक्तम् । तयोरधिकरणोऽग्निरित्या दिव.ल्पनोपयोगित्वेन. विशेषणान्तरमादत्ते-आहवनीयति । तयोः स्वातन्त्र्यं परिहरति-कादीति । अधिकरणशब्दो भावप्रधानो धर्मिपरः । काल्पनिको द्युलोकोख्योऽग्निस्तसंबन्धमिति तच्छब्दोऽग्निविषयः । अन्यच्चेत्युक्तं स्पष्ट यति-समिदादीति । आदिशब्दो धमाचिरङ्गारादिविषयः । पर्या यतात्पर्यमुक्त्वाऽक्षराणि व्याकरोति-असावित्यादिना । इहेत्येतल्लोकनिर्देशः पूर्वेण संबध्यते । तदुत्थाना-- दित्यत्र तच्छब्देनाऽऽदित्यो गृहीतः ॥ १॥ तस्मिन्नेतस्मिन्नमो देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा संभवति ॥ २ ॥ इति पञ्चमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ तस्मिन्नेतस्मिन्यथोक्तलक्षणेऽनौ देवा यजमानप्राणा अग्न्यादिरूपा अधिदैवतम् । श्रद्धामग्निहोत्राहुतिपरिणामावस्था रूपाः सूक्ष्मा आपः श्रद्धाभाविताः २ ख. ग. छ. अ. ट. ण. शुद्धां। २ क. ख. छ. अ. ण. 'रिक्षे च यदे । ३ ख. ण. रथे वि०। ४ ख. म. छ. अः ट. ण. यं सप्तम्यर्थः । ५ क. ग. ट. "कायाख्योः । ६ ख. उर प. बद्धाम।