पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२७० आनन्दगिरिकृत टीकासंवलित शांकरभाष्यसमेता-[५ पञ्चमाध्याये-- श्रद्धा उच्यन्ते । “ पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति " इत्यपां होम्यतया प्रश्ने श्रुतत्वात् । “ श्रद्धा वा आपः श्रद्धामेवाऽऽरभ्य प्रणीय प्रचरन्ति " इति च विज्ञायते । तां श्रद्धामपां जुबति । तस्या आहुतेः सोमो राजाऽपा श्रद्धाशब्दवाच्यानां द्युलोकानी हुताना परिणामः सोमो राजा संभवति । यथ दादिपुष्परसा ऋगादिमधुकरोपनीतास्त आदित्ये यशआदिकार्य रोहितादिरूपलक्षणमारभन्त इत्युक्तं तथेमा अग्निहोत्राहुतिसमवायिन्यः सूक्ष्माः श्रद्धा राब्दवाच्या आपो धुलोकमनुपविश्य चौन्द्रं कार्यमारभन्ते फलरूपमामिहोत्राहुत्योः । यजमानाश्च तत्कार आहुतिमया आहुतिभावनाभाविता आहुतिरूपेण कर्मणाऽऽकृष्टाः श्रद्धाप्समवायिनो झुलोकमनुपविश्य सोमभूता भवन्ति । तदर्थ हि तैरग्निहोत्रं हुतम् । अत्र वाहुतिपरिणाम एवं पञ्चाग्निसंबन्धक्रमेण प्राधान्येन विवक्षित उपासनार्थं न यजमानानां गतिः । तां त्वविदुषां धूमादिक्रमेणोत्तरत्र चक्ष्यति विदुषां चोत्तरां विद्याकृताम् ॥ २ ॥ इत्ति पञ्चमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ अध्यात्माधिदैवविभागेन देवान्विशदयति--यजमानेति । प्रत्य पविशेषत्वेन श्रद्धाया होम्यत्वानुपपत्तिरित्याशय श्रद्धां व्याकरोति--अग्निहोत्रेति । किंच प्रश्नप्रतिवचनयोरेकार्थत्वात्प्रश्ने चापां होम्यतया श्रुतत्वात्यतिवचनेऽपि ताः श्रद्धाशब्दिता होम्यतया विवक्षिता इत्याह-पञ्चम्यामिति । अप्सु शद्धाशब्दस्य वृद्धव्यवहारप्रयोगाभावानैवमित्याशङ्कयाऽऽह-श्रद्धेति । कथमापः श्रद्धाशब्देन प्रसिद्धवदुच्यन्ते तत्राऽऽह-- श्रद्धामिति । श्रद्धापूर्वकहोम्मु हश्य पयःसोमाज्यादिसाधनं संपाद्य जुहोतीति तैत्तिरीयकाः पठन्ति । तथा चाप्सु श्रद्धाशब्दः संभवतीत्यर्थः । उक्तमर्थ दृष्टान्तेन स्पष्टयति-- यथेत्यादिना । उक्तं मधुविद्यायामिति शेषः । चान्द्रं कार्य चन्द्रसमीपस्थं तत्सदृशं शरीरमित्यर्थः । तथाऽपि यजमानानां कथं फलतत्व(लिव)मत आह--यजमानाश्चेति । आहुती तच्छेवाच्ये प्राधान्यं मयडर्थः । तदेव स्पष्टयति-----आहु. तिभावनाभाविता इति । तत्संस्तुतास्तदनुसारिणस्तदाश्रया इत्यर्थः । तद्भावितवफलमाह-आहतिरूपेणेति । तेनाऽऽकृष्टःवं वशीकृतत्वम् । आहुतिभाविता इत्युक्तं स्पष्टयति--श्रद्धेति । तत्पूर्वक पयःसोमादिसाध्यं यत्कर्म तदाश्रया इत्यर्थः । • सोमभूतास्तत्समीपस्थं शरीरं प्राप्य तत्स्वरूपा इत्यर्थः । कथं सोमसारूप्यं धर्मिणां १५. ठ. य लोहि । २ ङ. त्र, ण. चान्द्रक । ३ च. वक्ष्यत । ४ फ. °च्छब्देन गृह्येने पा । ५ क. मग फ।