पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

पञ्चमः खण्डः ५] छान्दोग्योपनिषत् । २७१ फलमिल्याशङ्कयाऽऽह-तदर्थमिति । यजमान नां सोमभावो गतिमन्तरेण न सिध्यति । तथाच वक्तव्या गतिरित्याशङ्कयाऽऽह-अत्रेति । आहवनीयोऽग्निः सप्तम्यर्थः । सा तर्हि कुत्रोच्यते न हि तदुक्तिमन्तरेण यथोक्तं फलं सिध्यत्यत आह-तां त्विति ।।२।। इति पञ्चमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ ( अथ पञ्चमाध्यायस्य पञ्चमः खण्डः । ) पर्जन्यो वाव गौतमामिस्तस्य वायुरेव समिदनं धूमो विद्युदर्चिरशनिरङ्गारा ह्रादनयो विरफुलिङ्गाः॥ १ ॥ द्वितीयहोमपर्यायार्थमाह-पर्जन्यो वाव पर्जन्य एव गौतमाग्निः पर्जन्यो नाम वृष्टयुपकरणाभिमानी देवताविशेषः । तस्य वायुरेव समित् । वायुना हि पर्जन्योऽग्निः समिध्यते । पुरोवातादिप्राबल्ये वृष्टिदर्शनात् । अभ्रं धूमो धूमकायत्वाद्भूमवच्च लक्ष्यमाणत्वात् । विद्युदर्चिः । प्रकाशसामान्यात् । अशनिरङ्गाराः । काठिन्याद्विद्युत्संबन्धाद्वा । ह्रादनयो विस्फुलिङ्गाः । हादनयो गर्जितशब्दाः। मेघानां विप्रकीर्णत्वसमान्यात् ॥ १॥ द्वितीयहोमसंबन्धी द्वितीयः पर्यायस्तस्यार्थं निर्गतुं तमेव पर्यायमादत्ते श्रुतिरित्यर्थः । पुरोवातादीत्यादिशब्देन वर्षहेतुर्वायुभेदो गृह्यो । उक्तं चाभ्राणां धूमकार्यत्वं पौराणिकैः " यज्ञधूमोद्भवं त्वभ्रं द्विजानां च हितं सदा । दावाग्निधूमसंभूतम, बनहितं स्मृतम् ॥ मृत धूमोद्भवं त्वभ्रमशुभाय भविष्यति । अभिचाराग्निधूमोत्थं भतनाशाय वै द्विजाः ॥ इति ॥ १ ॥ तस्मिन्नेतस्मिन्ननौ देवाः सोम राजानं जुह्वति तस्या आहुतेर्वर्ष५ संभवति ॥२॥ इति पञ्चमाध्यायस्य पञ्चमः खण्डः ॥ ५॥ तस्मिन्नेतस्मिन्ननौ देवाः पूर्ववत्सोमं राजानं जुह्वति । तस्या आहु.