पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२७२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ ५ पञ्चमाध्यायेतेवर्ष संभवति । श्रद्धाख्या आपः सोमाकारपरिणता द्वितीये पर्याये पर्जन्यानि प्राप्य वृष्टित्वेन परिणमन्ते ॥ २ ॥ । इति पञ्चमाध्यायस्य पञ्चमः खण्डः ॥ ५॥ अध्यात्मं यजमानस्य प्राणा इन्द्रादयस्त्वधिदैवतं देवा इत्याह-पर्ववदिति । सोमं राजानमित्यादि व्याचष्टे-श्रद्धाख्या इति ॥ २ ॥ इति पञ्चम.ध्यायस्य पञ्चमः खण्डः ॥ ५॥ ( अथ पञ्चमाध्यायस्य षष्ठः खण्डः ।) पृथिवी वाव गौतमामिस्तस्याः संवत्सर एव समिदाकाशो धूमो रात्रिरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गाः ॥ १॥ प्रथिवी वाव गौतमाग्निरित्यादि पूर्ववत् । तस्याः पृथिव्याख्यस्याग्नेः संवत्सर एव समित् । संवत्सरेण हि कालेन समिद्धा पृथिवी बीह्यादिनिष्पत्तये भवति । आकाशो धूमः पृथिव्या इवोत्थित आकाशो दृश्यते । यथाऽग्नेधूमः । रात्रिरार्चिः पृथिव्या ह्यप्रकाशात्मिकाया अनुरूपा रात्रिः । तमोरूपत्वात् । अग्नेरिवानुरूपमर्चिः । दिशोऽङ्गारा उपशान्तत्वसामान्यात् । अवान्तरदिशो विस्फुल्लिङ्गाः क्षुद्रत्वसामान्यात् ।। १ ॥ तस्मिन्नेतस्मिन्ननौ देवा वर्ष जुह्वति तस्या आहुतेरन्न संभवति ॥ २॥ इति पञ्चमाध्यायस्य षष्ठः खण्डः ॥६॥ तस्मिन्नित्यादि समानम् । तस्या आहुतेरन्नं त्रीहियवादि संभवति ।। २ ॥ इति पञ्चमाध्यायस्य षष्ठः खण्डः ।।६।। इति पञ्चमाध्यायस्य पष्ठः खण्डः ॥ ६ ॥