पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

अष्टमः खण्डः ८ २७३ छान्दोग्योपनिषत् । (अथ पञ्चमाध्यायस्य सप्तमः खण्डः।) पुरुषो वाव गौतमामिस्तस्य बागेव समित्याणो धूमो जिह्वाऽर्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गाः ॥ १ ॥ पुरुषो वाव गौतमानिः । तस्य वागेव समित् । वाचा हि मुखेन समिध्यते पुरुषो न मूकः । प्राणो धूमो धूम इव मुखान्विर्गमनात् । जिह्वाऽर्चिलोहितत्वात्। चक्षुरङ्गारा भास आश्रयत्वात् । श्रोत्रं विस्फुलिङ्गाः । विप्रकीर्णत्वा. ग्यात् ॥१॥ तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः संभवति ॥ २ ॥ इति पञ्चमाध्यायस्य सहमः खण्डः ॥ ७ ॥ समानसन्यत् । अन्नं जुह्वति ब्रीह्यादिसंस्कृतम् । तस्या आहुते रेतः संभवति इति पञ्चमाध्यायस्य सप्तमः खण्डः ॥७॥ ॥२॥ इति पञ्चमाध्यायस्य सप्तमः खण्डः ॥ ७॥ (अथ पञ्चमाध्यायस्याष्टमः खण्डः।) योषा वाव गौतमाग्निस्तस्या उपस्थ एव समिद्यदुपमन्त्रयते स धूमो योनिरर्चिर्यदन्तः करोति नेऽङ्गारा अभिनन्दा विस्फुलिङ्गाः ॥ १ ॥ योपा वाव गौतमाग्निः । तस्या उपस्थ एव समित् । तेन हि सा पुत्राद्यत्पादनाय समिध्यते । यदुपमन्त्रयते स धूपः । स्त्रीसंभवादुपमन्त्रणस्थ । योनिरचिोहितत्वात् । यदन्तः करोति तेऽङ्गारा अग्निसंबन्धात् । अभिनन्दाः सुखलवा विस्फुलिङ्गाः क्षुद्रत्वात् ॥ १ ॥ १५. ऊ. च. उ. ड. णत्वात् । २ . . "सामान्यात् ।